SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे •तत्त्वज्ञानवि० पुस्तकपंचक गा.६६४. ॥१८८॥ वीतरागमन्तरेणैवमनपायं धर्ममुपदेष्टुमलंभविष्णुः, ततो ममापि स एव देवता तदुक्तमेवानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य संसारसुखविमुखः शुभध्यानोपगतः सजातजातिस्मरणो देवताऽर्पितसाधुलिङ्गो दीर्घकालं संयममनुपाल्य केवलज्ञानमासादितवान् , कालक्रमेण च सिद्धः, ततस्तत्पुत्रेण स्नेहापूरितमानसेन देवगृहं कारयित्वा रजोहरणमुखपोत्तिकापरिग्रहधारिणी पितृप्रतिमा तत्र स्थापिता सत्रशाला च तत्र प्रवर्तिता सा च साधर्मिकस्थलीति सिद्धान्ते भण्यते ७९ ॥ ६६२ ।। ६६३ ॥ इदानीं 'पुत्थगपंचगं'ति अशीतितमं द्वारमाह गंडी १ कच्छवि २ मुट्ठी ३ संपुडफलए ४ तहा छिवाडी य ५। एयं पोत्थयपणगं वक्खाणमिणं भवे तस्स ॥ ६६४ ॥ बाहल्लपुहुत्तेहिं गंडीपोत्थो उ तुल्लगो दीहो १ । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ॥ ६६५ ॥ चउरंगुलदीहो वा वद्दागिइ मुट्टिपुत्थगो अहवा । चउरंगुलदीहो च्चिय चउरंसो होइ विन्नेओ॥ ६६६॥ संपुडगो दुगमाई फलया वोच्छं छिवाडिमित्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेंति ॥ ६६७ ॥ दीहो वा हस्सो वा जो पिहलो होइ अप्प बाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥ ६६८॥ 'गंडी०' गाथापंचकं, गण्डिकापुस्तकं कच्छपीपुस्तकं मुष्टिकापुस्तकं संपुटफलकपुस्तकं छेदपाटिपुस्तकं च, एतत्पुस्तकपञ्चकं च ज्ञातव्यमिति शेषः, तस्य च-पुस्तकपञ्चकस्य इद-वक्ष्यमाणं व्याख्यानं भवेदिति ॥ ६६४ ॥ तदेवाह-'बाहल्ले'त्यादि गाथाचतुष्टयं, बाहल्यं-पिण्डः पृथुत्वं-विस्तरः ताभ्यां तुल्यः-समानश्चतुरस्रो दीर्घश्च गण्डीपुस्तको ज्ञेयः, तथा कच्छपीपुस्तक उभयपार्श्वयोरन्ते-पर्यन्तभागे तनुकः-सूक्ष्मो मध्यभागे च पृथुलो-विस्तृतोऽल्पबाहल्यो ज्ञातव्यः, तथा चतुरङ्गुल:-अङ्गुलचतुष्टयप्रमाणः प्राकृतत्वात् सेर्लोपः ॥१८ ॥ JainEducationHINA For Private Personal use only M ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy