SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte विशेषेण कथितमिति ॥ ६६० ॥ ६६१ ॥ अथवाऽन्येन प्रकारेण पश्च चैत्यानि भवन्ति, तत्राह - 'नीयाई' इत्यादिगाथाद्वयं, 'नि| त्यानि शाश्वतानि चैत्यानि तानि च 'सुरलोके' देवभूमौ उपलक्षणत्वान्मेरुशिखरे कूटनन्दीश्वररुचकवरादिषु च भवन्ति, तथा भक्ति"कृतानि भरतादिभिः कारितानि, मकारोऽयमलाक्षणिकः, तानि च निश्राकृतानि अनिश्राकृतानि चेति द्वेधा, तथा मङ्गलार्थं कृतं मङ्गलकृतं चैत्यं मथुरादिपुरीषु उत्तरङ्गप्रतिष्ठापितं । तथा वारत्तकमुनेः पुत्रो 'रम्ये' रमणीये 'चैत्ये' देवगृहे 'प्रतिमां' तस्यैव वारत्तकमुनेः प्रतिकृतिमकार्षीत्, तत्र च स्थलीति रूढिरभूत्, तत्तु साधर्मिकचैत्यमिति, भावार्थस्तु कथानकादवसेयः तच्चेदं - वारत्तकं नगरं, अभ यसेनो राजा, तस्य च वारत्तको नाम मन्त्री, एकदा च धर्मघोषनामा मुनिर्भिक्षार्थं तस्य गेहं प्रविष्टः, तद्भार्या च तस्मै मिक्षादानाय | घृतखण्डसम्मिश्रपायसपरिपूर्ण पात्रमुत्पाटितवती, अत्रान्तरे च कथमपि ततः खण्डसम्मिश्रो घृतबिन्दुर्भूमौ पतितः, ततः स महात्मा | धर्मघोषमुनिर्भगवदुपदिष्टभिक्षाग्रहणविधि विधानविहितोद्यमश्छर्दितदोषदुष्टेयं मिक्षा तस्मान्न कल्पते ममेति मनसि विचिन्त्य भिक्षामगृहीत्वा गृहान्निर्जगाम, वारत्तकमन्त्रिणा च मत्तवारणोपविष्टेन दृष्टो भगवान्निर्गच्छन्, चिन्तितं च- किमनेन मुनिना मदीया मिक्षा न गृहीतेति ?, एवं च यावच्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तघृतबिन्दु मक्षिकाः समेत्याशिश्रियन् तासां च भक्षणाय प्रधाविता | गृहगोधिका तस्या अपि वधाय प्रधावितः सरटः तस्यापि च भक्षणाय प्रधावति स्म मार्जारी तस्या अपि वधाय प्रधावितः प्राघूर्णक श्वा तस्यापि च वधाय प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा ततो द्वयोरपि तयोः शुनोरभूदन्योऽन्यं युद्धं निजनिजशुनक पराभवपीडया च प्रधावितयोर्द्वयोरपि तत्स्वाभिनोरभूत्परस्परं लकुटालकुटि महायुद्धं दृष्टं चैतत्सर्वमपि वारत्तकमन्त्रिणा, परिभावितं च घृतादेर्विन्दुमात्रेऽपि भूमौ पतिते यत एवंविधाऽधिकरणप्रवृत्तिः अत एवाधिकरणभीरुर्भगवान्, अहो सुदृष्टो भगवता धर्मः, को हि नाम भगवन्तं For Private & Personal Use Only ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy