________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ १८७ ॥
Jain Education
जिवरिदेहिं ॥ ६५९ ॥ गिहि जिणपडिमाए भत्तिचेइयं १ उत्तरंगघडियंमि । जिणबिंबे मंगलचेइति २ समयन्त्रणो विंति ॥ ६६० ॥ निस्सकडं जं गच्छस्स संतियं तदियरं अनिस्सकडं ४ | सिद्धाrयणं च ५ इमं चेइयपणगं विणिद्दिहं ॥ ६६१ ॥ नीयाई सुरलोए भन्तिकयाई च भरहमाहिं । निस्सास्सियाई मंगलकयमुत्तरंगंमि ॥ ६६२ ॥ वारत्तयस्स पुत्तो पडिमं कासीय चेइरम् । तत् य थली अहेसी साहम्मियचेइयं तं तु ॥ ६६३ ॥
'भत्ती ०' गाथापंचकं, चैत्यशब्दस्य प्रत्येकमभिसम्बन्धाद्भक्तिचैत्यं मङ्गलचैयं निश्राकृतं चैत्यमनिश्राकृतं चैत्यं शाश्वतचैत्यं च पञ्चममु| पदिष्टं - नामतः कथितं जिनवरेन्द्रैरिति ॥ ६५९ ॥ एतान्येव व्याचष्टे - ' गिही 'त्यादि गाथाद्वयं गृहे जिनप्रतिमायां यथोक्तलक्षणाद्युपेतायां प्रतिदिनं त्रिकालं पूजावन्दनाद्यर्थं कारितायां भक्तिचैत्यं, तथा उत्तरङ्गस्य - गृहद्वारोपरिवरिवर्तितिर्यकाष्ठस्य मध्यभागे घटिते-निष्पा दिते जिनबिम्बे मङ्गलचैत्यमिति 'समयज्ञाः' सिद्धान्तवेदिनो 'ब्रुवते' वदन्ति, मथुरायां हि नगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तथा चावोचाम स्तुतिषु — “जंमि सिरिपासपडिमं संतिकए करइ पडिगिह| दुवारे । अज्जवि जणो पुरिं तं महुरमधन्ना न पेच्छति ॥ १ ॥” [ यस्यां श्रीपार्श्वप्रतिमां शान्तिकृते करोति प्रतिगृहे द्वारि । अद्यापि जन: तां पुरीं मथुरामधन्या न प्रेक्षन्ते ॥ १ ॥ ] तथा 'निश्राकृतं' यद्गच्छस्य कस्यापि सत्कं स एव गच्छस्तत्र प्रतिष्ठादिप्रयोजनेष्वधिक्रियते अन्यः पुनस्तत्र किञ्चित्प्रतिष्ठादिकं कर्तुं न लभते इत्यर्थः, तथा 'तदियरं 'ति तस्मात् - निश्राकृतादितरत्-अनिश्राकृतं यत्र सर्वेऽपि गच्छाः प्रतिष्ठाप्रत्राजनक मालारोपणादीनि प्रयोजनानि कुर्वते इति, तथा 'सिद्धायतनं च' शाश्वतजिनायतनं च इदं चैत्यपञ्चकं 'विनिर्दिष्टं'
For Private & Personal Use Only
७९ चैत्य
पंचकं
गा. ६५९.
६६३
॥ १८७ ॥
w.jainelibrary.org