SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ अकद्दमे पाणरहिए य ॥१॥ मिन्नपि मासकप्पं करंति तणुयंपि कारणं पप्प । जिणकप्पियावि एवं एमेव महाविदेहेसुं ॥२॥" [ दोध्वसत्सु मध्यमास्तिष्ठन्ति यावत् पूर्वकोटीमपि । विहरन्ति वर्षास्वपि च अकर्दमे प्राणरहिते च ॥१॥ मासकल्पमपूर्णमपि कुर्वन्ति तनुकमपि कारणं प्राप्य । जिनकल्पिका अप्येवं एवमेव महाविदेहेषु ॥२॥] 'पज्जोसवण'त्ति व्याख्यानयनाह-पजो'इत्यादि, परि-सर्वथा वसनं एकत्र निवासो निरुक्तविधिना पर्युषणा तद्रूपः कल्पः पर्युषणाकल्पः न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानं Pउच्चारादिमात्रकसङ्ग्रहणं लोचकरणं शैक्षाप्रत्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनं इतरेषां ग्रहणं द्विगुणवर्षांपग्रहोपकरणधरणं अभिनवोपकरणाग्रहणं सक्रोशयोजनात्परतो गमनवर्जनमित्यादिको वर्षाकालसमाचार इत्यर्थः, सोऽपि न केवलं मासकल्प एव, एवंउक्तक्रमेण, तमेवाह-पूर्वतरादिभेदेन-आदिमान्तिममध्यमसाधुविशेषेण, अयमर्थः-प्रथमपश्चिमजिनयतीनां पर्युषणाकल्पोऽवस्थितो मध्यम|जिनमुनीनां त्वनवस्थित इति, अत्रैव विशेषमाह-उत्कर्षतरभेदः-उत्कृष्टजघन्यभेदः स पर्युषणाकल्पः, नवरं-केवलं भवति-स्याद्विज्ञेयःअवसेय इति ॥ ६५७ ॥ एतावेव भेदो व्याचष्टे-'चाउ०' चतुर्णा मासानां समाहारश्चतुर्मासं तदेव चातुर्मासं तद्यावदुत्कर्षः-उत्कृष्टः पर्युषणाकल्पः, आषाढपूर्णिमायाः कार्तिकपूर्णिमा यावदित्यर्थः, जघन्यः पुनः सप्ततिं रात्रिन्दिवानि-अहोरात्राणि भाद्रशुक्लपञ्चम्याः कार्तिकपूर्णिमा यावदित्यर्थः, केषामयं पर्युषणाकल्प इत्याह-स्थविराणां-प्रथमपश्चिमजिनसम्बन्धिस्थविरकल्पिकसाधूनां जिनानां पुनः-पूर्वातिमतीर्थकृजिनकल्पिकानां नियमात्-निश्चयेन उत्कृष्ट एव-मासचतुष्टयप्रमाण एव पर्युषणाकल्पः, निरपवादत्वाचेषामिति ।। ६५८ ॥ इदानीं 'चेइय'त्ति एकोनाशीतितमं द्वारमाह भत्ती १ मंगल चेइय २ निस्सकड ३ अनिस्सकडचेइयं ४ वावि । सासयचेय ५ पंचममुवइई म. सा.३२ Jain Education a l For Private Personal Use Only sanelibrary.org का
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy