________________
प्रव० सा- ५ द्विशेषतोऽप्रमादित्वेनोक्तदोषपरिहारप्रभविष्णवो भवन्ति, इतरे तु ऋजुजडवक्रजडत्वेन न तथेति ॥ ६५५ || 'मास'त्ति प्रकटयन्नाह - 'पुरी'रोद्धारे त्यादि, पूर्वेतरतीर्थकराणां - प्रथमपश्चिमजिनसाधूनां मासकल्पः - एकत्र मासावस्थितिरूपः समाचारः स्थितः - अवस्थितो निर्दिष्टः कथितः, तेषां | मासकल्पाभावेऽनेकदोषसम्भवात् उक्तं च - "पडिबंधो लहुयत्तं न जणुवयारो न देसविन्नाणं । नाणाराहणमेए दोसा अविहारपक्खमि | ॥ १ ॥ अस्या व्याख्या - प्रतिबन्धः - शय्याशय्यातरादिवस्तुष्वभिष्वङ्गो भवति, तथा लघुत्वं लाघवं एते हि स्वगृहं परित्यज्य गृहान्तरादिषु व्यासक्ता एवं लोकसम्भावनोत्पादनात् तथा न जनोपकारो-न विविधदेशस्थित भव्यजनानामुपदेशदानादिभिर्गुणः कृतो भवति | अथवा न देशान्तरस्थित सुविहितजनस्योपचारो - वन्दनादिपूजा जनेभ्यो वा सकाशादुपचारो न लब्धो भवति सुविहितजनव्यवहारो वा न परिपालितः स्यात् तथा न-नैव देशेषु - विविधमण्डलेषु सञ्चरतां विज्ञानं विचित्रलोकलोकोत्तरव्यवहारपरिज्ञानं तथा न-नैव आज्ञाराधनं - आगमोक्तार्थानुपालनं, आगमो ह्येवं - 'मुत्तूण मासकप्पं अन्नो सुत्तंमि नत्थि य विहारो ।' [ मुक्तत्वा मासकप्पं नास्त्यन्यः सूत्रे | विहारः ] एते - अनन्तरोक्ता दोषाः - दूषणान्यविहारपक्षे - मासकल्पेन विहाराभ्युपगमाभावे इति । अथ कदाचिद् दुर्भिक्षादिकालदोषसंयमाननुगुणत्वा दिक्षेत्र दोषशरीराननुकूल भक्तलाभादिद्रव्यदोषग्लानत्वज्ञानहान्यादि भावदोषवशतो यद्यप्येष मासकल्पो न बहिर्वृत्त्या क्रियते तथाप्यवश्यम्भावेन भावतो वसतिसंस्तारकव्यत्ययादिभिः क्रियमाणत्वादवस्थितः, यदुक्तं - "कालाइदोसओ जइ न दव्वओ एस कीरई नियमा । भावेण उ कायव्वो संथारगवच्चयाईहिं ॥ १ ॥ ।” [ कालादिदोषतो यदि न द्रव्यत एष क्रियते । भावेन तु नियमात् संस्तारकव्यत्ययादिभिः कर्त्तव्यः ॥ १ ॥ ] मध्यमजिनसाधूनां पुनरस्थितकः - अनवस्थितः एषः - मासकल्पो विज्ञेयो - ज्ञातव्यः, ऋजुप्रज्ञत्वेन तेषामधिकावस्थानेऽपि पूर्वोक्तदोषासम्भवात् उक्तं च - " दोसासइ मज्झिमगा अच्छंति उ जाव पुव्वकोडीवि । विहरंति य वासासुवि
तत्त्वज्ञानवि०
॥ १८६ ॥
Jain Educatio
For Private & Personal Use Only
**%
७८ अस्थितकल्पः
गा. ६५१६५८
॥ १८६ ॥
www.jainelibrary.org