________________
SCESCHOCOLACROSSC-
SCANCote
उद्दिष्टसाधुभ्योऽन्येषां तदौदेशिकं ग्रहीतुं कल्पते, कस्मादेवमित्याह-'एषा' अनन्तरोक्ता 'मेर'त्ति मर्यादा ऋजुप्राज्ञसाधून प्रज्ञापनीयलो8 कांश्चाधिकृत्य जिनैः कृतेतिकृत्वा, प्रथमपश्चिमजिनतीर्थे तु यमुद्दिश्य कृतमाधाकर्म तत्तस्यापि न कल्पते शेषसाधूनामपीति ॥६५३॥'पडि-
कमण'त्ति प्रतन्यते-सप्रतिक्रमण:-'सपडि'इत्यादि, उभयकालं षड्विधावश्यककरणयुक्तो धर्मः-चारित्रधर्मः पूर्वस्य च पश्चिमस्य च जिनस्य संबन्धिसाधूनां, मध्यमजिनसाधूनां तु कारणे-प्रतिक्रमणविशोधनीयातिचाररूपे जाते-समुत्पन्ने सति प्रतिक्रमणं कर्तव्यं, कारणाभावे सर्वदाऽपि ते न प्रतिक्रामन्ति, अयमभिप्रायः-प्रथमपश्चिमजिनसाधूनामतिचारो भवतु वा मा वा तथाऽप्यवश्यतया प्रभाते प्रदोषे च षडिधाऽऽवश्यकप्रतिक्रमणं गमनागमननद्यवतारादिषु च नियमेनेर्यापथिकाप्रतिक्रमणं कर्तव्यं, ऋजुजडवक्रजडतया तेषामुपकारित्वात् , मध्यमजिनमुनीनां पुनः प्रायेणातीचार एव न सम्भवति ऋजुप्रज्ञत्वात्तेषां, अथ कथञ्चित्कदाचनापि सम्भवति तदा तत्क्षणादेव रोगचिकित्सोदाहरणेन प्रतिक्रमणमुक्तरूपं कुर्वन्ति, यथा हि जातमात्र एव रोगे चिकित्सा क्रियमाणा सुखावहा भवति, एवं तत्काल एवातीचारविशुद्धये विधीयमानं प्रतिक्रमणमपीति ॥६५४॥ 'रायपिंड'त्ति व्याख्यानयन्नाह-'असणे'त्यादि, अशनादिचतुष्कं-अशनपानखादिमस्खादिमरूपा आहाराश्चत्वारः वस्त्रं पात्रं कम्बलं पादप्रोज्छनकं चेत्येतान्यष्टौ 'नृपपिण्डे' नृपपिण्डविषये चक्रवादिसत्कानीत्यर्थः प्रथमान्तिमजिनयतीनां न कल्पन्ते, अनेकदोषसम्भवात् , तथाहि-राजकुले मिक्षार्थ ब्रजतां यतीनामनवरतमस्तोकराजकुललोकनिर्गमप्रवेशादिभिः संमदिमङ्गलबुद्ध्या वा पात्रभङ्गदेहघातादयः सम्भवन्ति, चौरहेरिकघातकादिसम्भावनया राजकोपात्कुलगणसङ्घायुपघातश्च लोकमध्ये च गर्दा यथा अहो राजप्रतिप्रहमेते गर्हणीयमपि न परित्यजन्ति, गर्हणीयता च तस्य स्मातैरेवमुच्यते-"राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिर! । स्विन्नानामिव बीजानां, पुनर्जन्म न विद्यते ॥१॥" मध्यमजिनसाधूनां पुनर्नृपपिण्डः कल्पतेऽपि, ते हि ऋजुप्रज्ञत्वा
%
Jan Education
For Private Personal use only
Paw.jainelibrary.org