________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ १८५ ॥
Jain Education
'राण मासकप्पो ठिओ विणिद्दिट्ठो । मज्झिमगाण जिणाणं अट्ठियओ एस विण्णेओ । ६५६ ॥ पज्जोसवणाकप्पो चेवं पुरिमेयराइभेएणं । उक्कोसेयरभेओ सो नवरं होइ विन्नेओ ॥ ६५७ ॥ चाउम्मासुकोसो सत्तरि राईदिया जहन्नो उ । थेराण जिणाणं पुण नियमा उक्कोसओ चैव ॥ ६५८ ॥ आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिंडे मासकल्पे पर्युषणाकल्पे च सतत सेवनीयत्वाभावान्मध्यमजिनसाधूनामस्थित कल्पो ज्ञातव्यः, ते ह्येतानि स्थानानि कदाचिदेव पालयन्तीति ॥ ६५१ ॥ तत्र आचेलक्यस्वरूपं तावदाह - 'आचे' इत्यादि, अविद्यमानं नञ् कुत्सार्थे कुत्सितं वा चेलं यस्यासावचेलकस्तद्भाव आचेलक्यं तद्योगाद्धर्मोऽपि चारित्रलक्षण आचेलक्यः स पूर्वस्य च - युगादिदेवस्य पश्चिमस्य च - श्रीमहावीर - जिनस्य सम्बन्धिसाधूनां भवति, अयमत्र भावार्थ:- अचेला द्विधा - अविद्यमानवस्त्रा विद्यमानवस्त्राश्च तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति पुरुहूतोपनीतदेवदूष्यापगमानन्तरं, तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वस्त्रैरचेलाः, स्वल्पमूल्यश्वेतखण्डि - तवस्त्राश्रयणात् दृश्यते च लोके विवक्षितवस्त्राभावे सचेलत्वेऽपि विशिष्टार्थाप्रसाधकत्वेना सत्त्वाविशेषादचेलव्यवहारः, यथा काचित्पु रन्ध्री परिजीर्णशाटिकापरिधाना तन्तुवायमाह - नग्नाऽहं देहि मे शादिकामिति, मध्यमकानां पुनर्द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां | भवति - स्यात्सचेल :- सवस्त्रोऽचेलो वा - निर्वस्त्रो धर्मः, कुतः ? - तेषामृजुप्राज्ञत्वान्महामूल्य पञ्चवर्णानामितरेषां च वस्त्राणां परिभोगानुज्ञानात्, प्रथमपश्चिमजिनसाधूनां तु ऋजुजडत्वेन वक्रजडत्वेन च महाधनादिवस्त्राणामननुज्ञानात् श्वेतखण्डितादीनामेव चानुज्ञानादचेलक इति ||६५२ ॥ ' उद्देसिय'त्ति व्याख्यायते - 'मज्झिमेत्यादि, उद्देशेन - साधुसङ्कल्पेन निर्वृत्तमौदेशिकं - आधाकर्म अत्र स्थितास्थितकल्पविचारे विवक्षितं ततो मध्यमजिनसाधूनामिदं- औदेशिकं यमेव-साध्वादिकमुद्दिश्य कृतं - निर्वर्तितं तस्यैव न कल्पते, इतिः वाक्यसमाप्तौ, शेषाणां तु
For Private & Personal Use Only
७८ अस्थि
तकल्पः
गा. ६५१६५८
॥ १८५ ॥
jainelibrary.org