________________
स्तप्रमितेऽवग्रहे-देशविशेषे स्थितः सन् वन्दते जघन्यतस्तु करनवके-नवहस्तप्रमिते देशे, उच्छासनिःश्वासादिजनिताऽऽशातनापरिहारायेति ||॥७७॥ इदानीं पञ्चमङ्गलैर्यापथिकीशकस्तवादीनां सम्पत्प्रमाणलक्षणं विधिविशेषमाह-'अहे'त्यादि पञ्चमङ्गले-नमस्कारेऽष्टौ सम्पदः, ऐर्यापथिक्यामष्टौ, शक्रस्तवे नव, 'अरिहंतचेइयाणं' इत्यादिदण्डकेऽष्टौ, 'लोगस्सुजोयगरे' इत्यस्मिन् दण्डकेऽष्टाविंशतिः, 'पुक्खरवरदीवड्डे' इत्यत्र षोडश, 'सिद्धाणं बुद्धाणं' इत्यस्मिंश्च दण्डके विंशतिः सम्पदः, अस्या एव पर्यायमाह-वीसामा' इति विश्राम्यते-विरम्यते एग्विति विश्रामाः-सम्पदो विश्रमणस्थानानीतियावत् ॥ ७८ ॥ तत्र 'पञ्चपरमेष्ठी'त्यादि, पञ्चपरमेष्ठिमत्रे पदे पदे-विवक्षिताभिधेययुक्ते 'नमो अरहंताणं' इत्यादिके, न पुनः सुप्तिङ्युक्ते, सप्त सम्पदः क्रमशो विज्ञेयाः, अष्टमी पुनः पर्यन्ते सप्तदशाक्षरप्रमाणा 'मंगलाणं || |च सव्वेसि पढमं हवइ मंगलं' इतिस्वरूपा भणिता गणधरादिभिः, अन्ये तु पर्यन्तवर्तिनीस्तिस्रः सम्पद एवं मन्यन्ते, यथा
एसो पंच नमुक्कारो सव्वपावप्पणासणो' इति षोडशाक्षरप्रमाणा षष्ठी सम्पत् , 'मंगलाणं च सव्वेसिं' इत्यष्टाक्षरघटिता सप्तमी | सम्पत् , 'पढम हवइ मंगलं' इति नवाक्षरनिष्पन्ना अष्टमी सम्पत्, यदुक्तं-"अंतिमचूलाइ तियं सोलसअनवक्खरजुयं चेव ।
जो पढइ भत्तिजुत्तो सोपावइ सासयं ठाणं॥७९॥" [अन्त्यचूलिकायां त्रिकं षोडशाष्टनवाक्षरयुतं चैव । यः पठति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानं ॥१॥] इति, एवमैर्यापथिक्यादिष्वपि सम्पद्विषये यथायथं मतान्तराणि मतिमद्भिर्मन्तव्यानीति । अत्र च यद्यपि 'हवइ होइ' इत्यनयोरथ प्रति न कश्चिद्विशेषः 'होइ मंगलं' इति च पाठे श्लोको नाधिकाक्षरो भवति तथापि 'हवई' इत्येव पठितव्यं, यतो नमस्का
रवलयकादिग्रन्थेषु सर्वमश्ररत्नानामुत्पत्त्याकरस्य प्रथमस्य कल्पितपदार्थकरणैककल्पद्रुमस्य विषविषधरशाकिनीडाकिनीयाकिन्यादिनिग्रहनिरनवग्रहस्वभावस्य सकलजगद्वशीकरणाकृष्ट्याद्यव्यभिचारिप्रौढप्रभावस्य चतुर्दशपूर्वाणां सारभूतस्य पञ्चपरमेष्ठिनमस्कारस्य व्याख्यायां प्रस्तुतायां
*SCHICHISPAS
Jain Education
For Private & Personel Use Only
N
inelibrary.org