SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि० तभावना गा. ६३६६४० ॥१७८॥ ३ तथा लोभामिभूतचित्तोऽप्यत्यर्थमर्थकाझ्या कूटसाक्षित्वादिना वितथभाषी भवति, अतः सत्यवतमनुपालयता लोभः प्रत्याख्येय इति || चतुर्थी ४ तथा भयातः निजप्राणादिरक्षणेच्छया सत्यवादितां व्यभिभरति ततो निर्भयवासनाऽऽधानमात्मनि विधेयमिति पञ्चमी ५ |इति द्वितीयमहावतभावनाः पञ्च । अथ तृतीयमहावतभावनाः प्रोच्यन्ते, तत्र स्वयमेव-आत्मनैव न तु परमुखेन साधुः प्रभु प्रभुस|न्दिष्टं वा सम्यक्परिज्ञाय अवग्रहस्य-देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदमिन्नस्य याचने-याञ्चायां प्रवर्तते, परमुखेन हि याचनेस्वामियाचने च परस्परविरोधेन च अकाण्डधाटनादयोऽदत्तपरिभोगादयश्च दोषा इति प्रथमा १ तथा तत्रैवानुज्ञापितावग्रहे तृणादिप्र-5 हणार्थ मतिमान घटेत-चेष्टेत निशम्य-आकावग्रहप्रदातुस्तृणाद्यनुज्ञावचनं, अन्यथा तददत्तं स्यादिति द्वितीया २ तथा 'सदा सर्वकालं भिक्षुरवग्रहं स्पष्टमर्यादया याचेत, अयमर्थः-सकृद्दत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रह याचनं कर्तव्यं, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थायां मूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दायकचित्तपीडापरिहारार्थ याचनीयानीति तृतीया ३ तथाऽनुज्ञाप्य गुरुमन्यं वा भुजीत पानभोजनं, अयमर्थः-सूत्रोक्तेन विधिना प्रासुकमेषणीयं लब्धमानीयालोचनापूर्व गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्डल्यामेकको वाऽश्रीयात्, उपलक्षणमेतत् , अन्यदपि यत्किञ्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातमेव भोक्तव्यं अन्यथाऽदत्तमेव परिभुक्तं स्यादिति चतुर्थी ४ तथा समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिकाः-प्रतिपन्नैकशासनाः संविग्नाः साधवः, तेषां पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपं याचित्वा स्थानादि कार्य, तदनुज्ञातं हि तत्र उपाश्रयादि समस्तं गृह्णीयात् , अन्यथा चौर्य स्यादिति पञ्चमी ५ एतास्तृतीयव्रतभावनाः पञ्च । इदानी चतुर्थव्रतभावनाः प्रतिपाद्यन्ते-तत्र आहारे गुप्तः स्यात् न पुनः स्निग्धमतिमात्रं भुजीत, यतो निरन्तरवृष्यस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु ॥१७८॥ lain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy