SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education ताः कथ्यन्ते, ईरणं इर्या - गमनं तत्र समितः- उपयुक्तः, असमितो हि प्राणिनो हिंस्यादिति प्रथमा भावना १ तथा सदा-सर्वकालं 'यतः' सम्यगुपयुक्तः सन् 'उवेह'त्ति अवलोक्य भुञ्जीत वाशब्दाद् गृहीत वा पानभोजनं, अयमर्थः - प्रतिगृहं पात्रमध्यपतितः पिण्डचक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन भोक्तव्यं, अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया, २ तथा 'आदाननिक्षेपौ' पात्रादेर्यहणमोक्षावागमप्रतिषिद्धी 'जुगुप्सति' न करोतीति आदाननिक्षेपजुगुप्सकः, आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नु| पधेरादाननिक्षेपौ करोतीत्यर्थः, अजुगुप्सको हि सत्त्वव्यापादनं विदध्यादिति तृतीया ३ तथा 'संयतः' साधुः 'समाहितः' समाधानपरः सन् 'संयतते' प्रवर्तयत्यदुष्टं मनो, दुष्टं हि मनः क्रियमाणं काय संलीनतादिकेऽपि सति कर्मबन्धाय सम्पद्यते श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुत्यभाविताऽहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरक पृथ्वीयोग्यं कर्म निर्मितवानिति चतुर्थी ४ एवं वाचमप्यदुष्टां प्रवर्तयेत् दुष्टां (हि तां ) प्रवर्तयन् जीवान् विनाशयेदिति पञ्चमी ५, तत्त्वार्थे तु अस्याः स्थाने एषणासमितिलक्षणा भावना भणिता, इति प्रथमव्रतभावनाः पञ्च । अथ द्वितीयमहाव्रतभावना भण्यन्ते - अत्र अहास्यात्- हास्यपरिहारात् 'सत्यः' सत्यवाक्, हास्येन ह्यनृतमपि ब्रूयादिति प्रथमा १ तथा 'अनुविचिन्त्य' सम्यग्ज्ञानपूर्वकं पर्यालोच्य 'भाषको' वक्ता, अनालोचितभाषी हि कदाचिन्मृषाऽप्यभिदधीत, ततश्चात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेदिति द्वितीया २ तथा यः क्रोधं लोभं भयमेव वा वर्जयेत्-परिहरेत् स एव मुनिर्दीर्घरात्रं - मोक्षं 'समुपेक्षिता' | सामीप्येन मोक्षावलोकनशीलः सन् 'सदा' सर्वकालं हु-निश्चयेन 'मोसं 'ति अनुस्वारस्यालाक्षणिकत्वान्मृषापरिवर्जकः 'सिया' स्यात्, अयमर्थ:- क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किश्चनभाषी मृषाऽपि भाषेत अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy