________________
5A5
%
*
**
न केवलं ब्रह्मावतविलोपविधायित्वाद्वर्जनं कायक्लेशकारित्वादपीति प्रथमा १ तथा अविभूषितात्मा-विभूषाविरहितः, देहलानविलेपनादिविविधविभूषानिरतो हि नितान्तमुद्रिक्तचित्ततया ब्रह्मविराधकः स्यादिति द्वितीया २ तथा स्त्रियं न निरीक्षेत, तव्यतिरेकात्तदङ्गान्यपि * वदनस्तनप्रभृतीनि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भव इति तृतीया ३ तथा स्त्रियं न संस्तुवीत-1
स्त्रीमिः सह परिचयं न कुर्यात् तत्संसक्तवसतितदुपभुक्तशयनासनादिसेवनेन, अन्यथा ब्रह्मवतभङ्गः स्यादिति चतुर्थी ४ तथा बुद्धः-अवगततत्त्वो मुनिः क्षुद्रां-अप्रशस्यां ब्रह्मचर्यप्रस्तावात् स्त्रीविषयां कथां न कुर्यात् , तत्कथाऽऽसक्तस्य हि मानसोन्मादः सम्पद्येत इति पञ्चमी ५ एताभिः पञ्चभिर्भावनामि वितान्तःकरणो धर्मानुप्रेक्षी-धर्मसेवनतत्परःसाधुः सन्धत्ते-सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थमहाव्रतभावनाः । अथ पञ्चमवतभावना निगद्यन्ते-तत्र यः साधुः शब्दरूपरसगन्धान् आगतान-इन्द्रियविषयीभूतान् , मकारोऽयमलाक्षणिकः, स्पर्शाश्च सम्प्राप्य-समासाद्य मनोज्ञान्-मनोहारिणः पापकान्-विरूपान् इष्टाननिष्टांश्चेत्यर्थः, गृद्धि-अभिष्वङ्गलक्षणां प्रद्वेषं च-अप्रीतिलक्षणं यथाक्रमं न कुर्यात् पण्डितो-विदिततत्त्वः सन् स दान्तो जितेन्द्रियो विरत:-सर्वसावद्ययोगेभ्यो भवत्यकिञ्चन:-किश्चन बाह्याभ्यन्तरपरिग्रहभूतं नास्यास्तीतिव्युत्पत्त्या परिग्रहविरतिव्रतवानित्यर्थः, अन्यथा शब्दादिषु मूर्छादिसद्भावात् पञ्चमव्रतविराधना स्यादिति पञ्चसु विषयेष्वभिष्वङ्गप्रद्वेषवर्जनात् पञ्चमव्रतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति, एताश्च समवायाङ्गतत्त्वार्थादिषु किञ्चिदन्यथाऽपि दृश्यन्ते इति ॥ ६३६ ॥ ६३७ ॥ ६३८ ॥ ६३९ ॥ ६४० ॥७२॥ इदानीं 'असुहाओ पणवीसं'ति त्रिसप्ततितमं द्वारमाह
कंदप्पदेव १ किविस २ अभिओगा ३ आसुरी ४ य सम्मोहा ५ । एसा हु अप्पसत्था पंचविहा
**
PRAKAR
Jain Eduetan
For Private & Personal Use Only
w
ainelibrary.org