________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १७४ ॥
Jain Education
नेषु गच्छवासिषु साधुषु अवन्दमानेषु च कल्पस्थितेषु लोकमध्ये परिवादो - निन्दा भवति, तथाहि--यथालन्दिकानां कल्पस्थित्यैव आचार्य मुक्तवा अन्यस्य साधोः प्रणामं कर्तुं न कल्पते, गच्छसाधवश्च महान्तोऽपि तान् वन्दन्ते, ते पुनर्न प्रतिवन्दन्ते, ततो लोको वदेद् यथा दुष्टशीला एते येन अन्यान् साधून् वन्दमानानपि न व्याहरन्ति न वन्दन्ते वा गच्छसम्बन्धिसाधूनां वा उपरि भ्रष्टत्वाशङ्का भवेत्, अवश्यमेते दुःशीला निर्गुणाश्च येन न वन्दन्ते, आत्मार्थिका वा एते येन अप्रतिवन्दमानानपि वन्दन्ते इति । अथ यदि जङ्घावलक्षीणतया तत्सकाशं गन्तुं न तरेत्-यदि न शक्नुयादाचार्यस्तदा एति-आगच्छति, केत्याह- अन्तरपल्लीं- मूलक्षेत्रात्सार्धद्विगव्यूतस्थं ग्रामविशेषं यद्वा प्रतिवृषभप्रामान्-मूलक्षेत्राद् द्विगव्यूतस्थान् मिक्षाचर्यामामान् अथवा बहिर्मूलक्षेत्रात् मूलक्षेत्र एव वा अन्यवसतिं वाशब्दान्मूलवसतिमिति, इयमत्र भावना-यद्याचार्यो यथालन्दिकसमीपे गन्तुं न शक्नोति तदा यस्तेषां यथालन्दिकानां मध्ये धारणाकुशलः सोऽन्तरपट्टीमागच्छति, आचार्यस्तु तत्र गत्वाऽर्थ कथयति, अत्र पुनः साधुसङ्घाटको मूलक्षेत्राद्भक्तं पानं च गृहीत्वा भाचार्याय ददाति, स्वयं चाचार्य: सन्ध्यासमये मूलक्षेत्रमायाति, अथान्तरपल्लीमागन्तुं न शक्नोति तदा अन्तरपल्लीप्रतिवृषभग्रामयोरन्तराले गत्वाऽर्थ कथयति, तत्रापि गन्तुं शक्तयभावे प्रतिवृषभप्रामे, तत्रापि गन्तुमशक्तौ प्रतिवृषभप्राममूलक्षेत्रयोरन्तराले, तत्रापि गन्तुमसामर्थ्ये मूलक्षेत्रस्यैव बहिविजने प्रदेशे, अथ तत्रापि गन्तुमसमर्थस्तदा मूलक्षेत्रमध्य एवान्यस्यां वसतौ गत्वा तत्रापि गमनशक्त्यभावे मूलवसतावेव प्रच्छनं भचार्यस्तस्मै यथालन्दिकायार्थशेषं प्रयच्छतीति, उक्तं च कल्पचूण - "आयरिए सुत्तपोरिसिं अत्थपोरिसिं च गच्छे ठियाणं दारं अहालंदियाणं सगासं गन्तुं अत्थं सारेइ, अह न तरह दोवि पोरिसीओ दाडं गन्तुं तो सुत्तपोरिसिं दार्ड वच्चइ, अत्थपोरिसिं च सीसेणं दवावेइ, अथ सुत्तपोरिसिंपि दाउँ गन्तुं न तरह तो दोवि पोरिसीओ सीसेणं दवावेइ, अप्पणा अहालंदिए वाएइ, जइ न सकेइ आय
For Private & Personal Use Only
Sk
७० यथालन्दिकाः
गा. ६११६२२
॥ २७४ ॥
jainelibrary.org