________________
AAAAAAAAAE%
वीथीः कुर्वन्ति, अयमर्थः-यथालन्दिका गृहपतिरूपाभिः षड्भिर्वीथीमिमं परिकल्पयन्ति, एकैकस्यां च वीध्यां पञ्च पञ्च दिवसानि | मिक्षा पर्यटन्ति, तत्रैव च वसतिं विदधति, उक्तं च पञ्चकल्पचूर्णी-छन्भागे गामो कीरइ, एगेगे पञ्चदिवसं भिक्खं हिंडंति, तत्थेव वसंति, वासासु एगत्थ चउम्मासो"त्ति, तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिक्षामटन्ति, उद्धृतादिमिक्षापञ्च
कमध्यादेकस्मिन् दिवसे यां मिक्षामटन्ति न पुनर्द्वितीयेऽपि दिने तामेवाटन्ति किन्त्वन्यामिति भावः, इत्थं तावदस्माभिर्व्याख्यातं सुधिया ४ तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति ॥ ६१७ ॥ अथ सूत्रनानात्वं निर्दिदिक्षुर्यथालन्दिकभेदानेवाह-यथालन्दिका द्विविधाः-गच्छ
प्रतिबद्धा इतरे च-गच्छाप्रतिबद्धाः, ते पुनरेकैकशो द्विभेदाः-जिनकल्पिकाः स्थविरकल्पिकाश्च, तत्र यथालन्दिककल्पपरिसमाप्त्यनन्तरं ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु स्थविरकल्पमेवाश्रयिष्यन्ति ते स्थविरकल्पिकाः, इह च ये गच्छे प्रतिबद्धास्तेषां प्रतिबन्धोऽनेन कारणेन भवति–'अत्थस्से'त्यादि, अर्थस्यैव न सूत्रस्य, देश:-एकदेशोऽद्याप्यसमाप्तो-न गुरुसमीपे परिपूर्णो गृहीत इति तद्ग्रहणाय गच्छे प्रतिवन्धस्तेषां, तस्यावश्यं गुरुसमीपे ग्रहीष्यमाणत्वादिति ॥ ६१८ ॥ अथ परिपूर्ण सूत्रार्थ गुरुसमीपे गृहीत्वैव कथं कल्पं न प्रतिपद्यन्ते ? इत्याह-लग्नादिषु त्वरमाणेषु-शुभेषु लग्नयोगचन्द्रबलादिषु झगित्यागतेषु सत्सु अन्येषु च लग्नादिषु दूरकालवर्तिषु न तथाभव्येषु वाऽगृहीतपरिपूर्णसूत्रार्था अपि लग्नादिभव्यतया कल्पं प्रतिपद्यन्ते, ततः प्रतिपद्य तं कल्पं गच्छान्निर्गय गुर्वधिष्ठितात्क्षे-5|| त्राद् प्रामनगरादेर्बहिर्दूरदेशे स्थिता विशिष्टतरनिष्ठुरनिखिलनिजानुष्ठाननिरता गृह्णति यदगृहीतं-अनधीतमर्थजातं, तत्र चायं विधिः
यदुत आचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः 'तयंति तमर्थशेष प्रयच्छति-ददाति, अथ त एवाचार्यसमीपमागत्य किमिति 8 तमर्थशेषं न गृह्णन्तीत्याह-'खेत्तं इंताणे'त्यादि, क्षेत्रमध्यं समागच्छतां तेषां यथालन्दिकानामेते-वक्ष्यमाणा दोषाः, तथाहि-वंदमा
Jain Educat
onal
For Private Personal Use Only
H
--
w
.jainelibrary.org