SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Jain Education ॥ ६२० ॥ न तरेज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लि पडिवसभ गामवहि अण्णवसहिं वा ॥ ६२१ ॥ तीए य अपरिभोगे ते वंदते न वंदई सो उ । तं घेत्तु अपडिबद्धा ताहि जहिच्छाह विहरति ॥ ६२२ ॥ ‘लंद’ मित्यादिगाथाद्वादशकं, लन्दं तु भवति कालः, समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः, स पुनः कालोधा - उत्कृष्टो मध्यमो जघन्यश्च तत्र उदकार्द्रकरो यावता कालेन 'इह' सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, अस्य चेह जघन्यत्वं प्रत्याख्यान नियमविशेषादिषु विशेषत उपयोगित्वात्, अन्यथा अतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालस्य सम्भवात् ॥ ६११ ॥ उत्कृष्टः पूर्वकोटीप्रमाणः, अयमपि चारित्रकालमानमाश्रित्य उत्कृष्टः उक्तः, अन्यथा पल्योपमादिरूपस्यापि कालस्य सम्भवात्, मध्ये पुनर्भवन्त्यनेकानि स्थानानि वर्षादिभेदेन कालस्य, अत्र पुनर्यथालन्दकल्पप्रक्रमे पथ्थरात्रं 'यथे' त्यागमानतिक्रमेण लन्दं-काल उत्कृष्टं भवति, तेनैवात्रोपयोगात् ॥ ६१२ ॥ यस्मात्पश्वरात्रं चरन्ति पेटार्धपेटायन्यतमायां वीध्यां भैक्षनिमित्तं पञ्चरात्रिन्दिवान्यटन्ति तस्माद्भवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् तथा पश्चैव पुरुषा भवन्ति गच्छो-गणस्तेषां - यथालन्दिकानां पञ्चको हि गणोऽनुं कल्पं प्रतिपद्यते इत्युत्कृष्टमेकैकस्य गणस्य पुरुषपरिमाणमेतदिति ॥ ६१३॥ अत्र बहुवक्तव्यत्वान्निरवशेषाभिधाने प्रन्थगौरवप्रसक्त्या यथालन्दिककल्पस्यातिदेशमाह-यैव च जिनकल्पे - जिनकल्पविषया मेरा-मर्यादा पञ्चविधतुलनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं | -भेदः पुनर्जिनकल्पिकेभ्यो यथालन्दिकानां 'सूत्रे' सूत्रविषयं तथा मिक्षाचर्यायां मासकल्पे च चकारात्प्रमाणविषयं चेति ॥ ६१४ ॥ अथातिदेशपूर्व कमल्पवक्तव्यत्वात्प्रथमं मासकल्पनानात्वमेवाह - यथालन्दिका द्विविधाः गच्छे प्रतिबद्धा अप्रतिबद्धाश्च गच्छे च प्रतिव For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy