________________
अभिग्रहद्वारे अभिग्रहाश्चतुर्विधाः-द्रव्यामिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्व, तत्र परिहारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, | यस्मादेतस्य कल्प एव यथोक्तस्वरूपोऽभिग्रहो वर्तते, उक्तं च-"दवाईय अभिग्गह विचित्तरूवा न हुंति पुण केई । एयस्स जाव कप्पो कप्पोच्चियऽभिग्गहो जेणं ॥ १ ॥ एयम्मि गोयराई नियमा नियमेण निरववादा य । तप्पालणं चिय परं एयस्स विसुद्धिठाणं तु ॥२॥" [ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति पुनः केचित् । एतस्य यावत् कल्पः कल्प एव येनाभिग्रहः ॥ १॥ एतस्मिन् गोचरादिनियमा नियमेन निरपवादाश्च तत्पालनमेव परमेतस्य विशुद्धिस्थानं ॥२॥] ११ । प्रव्रज्याद्वारे नासावन्यं प्रत्राजयति कल्पस्थितिरियमितिकृत्वा, आह च-पव्वावेइ न एसो अन्नं कप्पट्टिइत्ति काऊणं । [प्रत्राजयति नैषोऽन्यं कल्प इतिकृत्वा ] इति, उपदेशं पुनयथाशक्ति प्रयच्छति १२ । निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि न कदाचिदपनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने अपवादपदमासेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया । पाणंतिएवि य तहा वसणंमि न वट्टए बीए ॥ १॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एसत्ति । अहवा सुहभावाओ बहुगंऽपेयं चिय इमस्स ॥२॥" [ निष्पतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च तथा व्यसने न वर्तते द्वितीये ( अपवादे)॥१॥ अल्पबहुत्वालोचनविषयातीतस्तु भवत्येष इति । अथवा शुभभावात् बहुकमप्येतदेवास्य ॥२॥] १३ । भिक्षाद्वारे पथिद्वारे च मिक्षा विहारकमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्य स्खल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येषोऽविहरन्नपि महाभागो नापवादपदमासेवते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधाति, उक्तं च-"तइयाइ पोरसीए भिक्खाकालो विहारकालो य । सेसासु य उस्सग्गो पायं अप्पा य निदत्ति ॥१॥ जवाबलंमि खीणे अविहरमाणोऽवि न
पइति । अथवा शुभभावात् बहुकमप्यताऽपि चास्य स्वल्पा द्रष्टव्या, यदि पुन
च-"तइयाइ ।
JainEducationS
ubnal
For Private
Personal Use Only
ainelibrary.org