________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १७१ ॥
Jain Education
| पवित्तिकाले इत्थीवज्जो उ होइ एगयरो । पुव्वपडिवन्नगो पुण होइ सवेदो अवेदो वा ॥ १ ॥” [ वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवत्येकतरः । पूर्वप्रतिपन्नकः पुनर्भवति सवेदोऽवेदो वा ॥ १ ॥] ६ । कल्पद्वारे स्थितकल्प एवायं नास्थितकल्पे, 'ठियकप्पंमि य नियमा' इति वचनात्, तत्र आचलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्षु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोऽस्थितकल्पः ७ । लिङ्गद्वारे नियमतो द्विविधेऽपि लिङ्गे भवन्ति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचित सामाचार्ययोगात् ८ । ध्यानद्वारे धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः ९ । गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते उत्कर्षतः शतसङ्ख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च - "गणओ तिन्नेव गणा जहन्न पडिवत्ति सयस उकोसो । उक्कोस | जहन्त्रेण य सयसोच्चि पुव्वपडिवन्ना || १ | सत्तावीस जहन्ना सहस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन्न जहन्न उकोसो ॥ २ ॥” [ गणतस्त्रय एव गणा जघन्यतः प्रतिपत्तौ शतश उत्कृष्टतः । उत्कृष्टतो जघन्यतश्च शतशः एव पूर्वप्रतिपन्नाः ॥ १ ॥ सप्तविंशतिर्जघन्यतः सहस्रमुत्कृष्टतश्च प्रतिपत्तौ । शतशः सहस्रशो वा प्रतिपन्ना जघन्यात् उत्कृष्टाश्च ॥ २ ॥ ] अन्यच्च यदा पूर्वप्रतिपनकल मध्यादेको निर्गच्छति अन्यः प्रविशति तदा न्यूनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च – “पडिवजमाण भयणाऍ होज्ज एक्कोऽवि ऊणपक्खेवो । पुव्वपडिवन्नयावि य भइया एको पुहुत्तं वा ॥ १ ॥ । [ प्रतिपद्यमाना भजनया ऊनप्रक्षेपे एकोऽपि भवेत् पूर्वप्रतिपन्ना अपि च भक्ताः एकः पृथक्तत्वं वा ॥ १ ॥ ] १० ।
For Private & Personal Use Only
६९ परिहारविशुद्धिः गा. ६०२१०
।। १७१ ।।
jainelibrary.org