________________
*****
प्पण्णे वा जाईसरणाइएहिं तु ॥१॥" [तीर्थ इति नियमत एव भवति स तीर्थे नतु तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिकैस्तु M॥१॥]३ । पर्यायद्वारे पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च, तत्र गृहस्थपर्यायो जघन्य।
एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणौ, उक्तं च पञ्चवस्तुके-'एयस्स एस नेओ गिहिपरियाओ जहन्न गुणतीसा । जइपरियाओ वीसा दोसुवि उक्कोस देसूणा ॥१॥" [एतस्यैष ज्ञेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् ४ यतिपर्यायो विंशति: द्वयोरप्युत्कर्षतो देशोना (पूर्वकोटी)॥१॥] यत्पुनरत्र सूत्रे-"जम्मेण तीसवरिसो परियारण गुणवीसवरिसो य । परिहारं पट्ठविउं कप्पइ मणुओ हु एरिसओ॥१॥" इत्युक्तं तदसङ्गतमिव लक्ष्यते, कल्पादिमिळभिचारात् , यदुक्तं कस्पभाष्ये
-"गिहिपरियाए जहन्नओ गुणतीसा । जइपरियाए वीसा दोसुंउकोसदेसूणा ॥१॥" [गृहिपर्याये जघन्यत एकोनत्रिंशत् यतिपर्याये | विंशतिः द्वयोरुत्कर्षतो देशोना ॥१॥] ४ । आगमद्वारे अपूर्वमागमं स नाधीते, यस्मात्तं कल्पमधिकृत्य गृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक्प्रायोऽनुस्मरति, आह च-"अप्पुम्वं नाहिजइ आगममेसो पडुच तं कप्पं । जमुचियपगहियजोगाराहणओ एस कयकिच्चो ॥ १॥ पुब्बाहीयं तु तयं पायं अणुसरह निचमेवेसो । एग-४ ग्गमणो सम्मं विस्सोयसियाएँ खयहेऊ ॥२॥" [अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पं । यदुचितप्रगृहीतयोगाराधनात एष कृतकृत्यः ॥१॥ पूर्वाधीतं तु तं नित्यमेवैषोऽनुस्मरति । एकाममनाः सम्यक् विस्रोतसिकायाः क्षयहेतोः ॥ २॥] ५। वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवेदो वा भवेन्नपुंसकवेदो वा, न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिकल्पप्रतिपत्त्यसम्भवात् , अतीतनयमधिकृत्य पुनः पूर्वप्रतिपाश्चिन्यमानः सवेदो ना भवेदवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ पकश्रेणिप्रतिपत्तौ वा त्ववेदः, उक्तं च-"वेदो
**
Jan Edu
a
l
For Private Personal Use Only
Diwr.jainelibrary.org