SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रयोजने आपने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते, न पुनर्ब्रतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादयस्तु प्रयोजन एवापन्नेऽनुष्ठीयते इति ।। ५९६ ॥ ६७ ॥ सम्प्रति 'जङ्घा विज्जाचारणगमणसत्ति'त्ति अष्टषष्टं द्वारमाह अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो निस्सं काउं रविकरेऽवि ॥ ५९७ ॥ एगुप्पाएण गओ रुयगवरंमि य तओ पडिनियत्तो । बीएणं नंदीसरंभि एड तइएण समएणं ॥ ५९८ ॥ पढमेण पंडगवणं बीउप्पारण नंदणं एइ । तइउपाएण तओ इह जंघाचाणी एइ ॥ ५९९ ।। पढमेण माणुसोत्तरनगं तु नंदीसरं तु बीएणं । एइ तओ तइएणं कयचेइयवंदणो इयं ॥ ६०० ॥ पढमेण नंदणवणे बीउ पाएण पंडगवणंमि । एइ इहं तइएणं जो विजाचारणी होई ॥। ६०१ ॥ चरणं गमनं तद्विद्यते येषां ते चारणाः, 'ज्योत्स्नादिभ्योऽणू' इति पा० ५ - २ - १३ वा० ) मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनामस्ति ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमागमनं चाभिगृह्यते, अत एवातिशायने मत्वर्थीयोऽयं, यथा रूपवती कन्येत्यत्र, ततोऽतिशयचरणसमर्था - अतिशयगमनागमनलब्धिसम्पन्नाश्चारणाः, ते च द्विभेदाः - जङ्घाचारणा विद्याचारणाश्च तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनागमनविषयलब्धिसम्पन्नास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणाः, जवाचारणा रुचकवरद्वीपं यावद्गन्तुं समर्थाः विद्याचारणाश्च नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छ्रवस्तत्र रविकरानपि निश्रीकृत्य गच्छति ॥५९७॥ विद्याचारणास्त्वेवमेव, जङ्घाचारणश्च रुचकवरद्वीपं गच्छन्ने केनैवोत्पातेन गच्छति प्रतिनिवर्तमानस्त्वेकेनोत्पातेन Jain Educational For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy