________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
॥१६८॥
नन्दीश्वरमायाति द्वितीयेन स्वस्थानमिति त्रय उत्पाताः, ॥५९८॥ यदि पुनर्मेरुशिखरं जिगमिपुस्तदा प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति, ६८ चारप्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति, ततो लब्ध्यु- णाः गा. पजीवने औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति मा५९७-६०१ ॥५९९।। विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, द्वितीयेन तु नन्दीश्वरं, तत्र च गत्वा चैत्यानि वन्दते, ततः प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, तत्र चैत्यानि वंदित्वा ततः प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमायाति, ॥६००॥ विद्याचारणो हि विद्यावशात् भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसंभवात् एकेनैवोत्पातेन स्वस्थानागमनमिति, एतच्च चारणभेदद्वयमुपलक्षणं, अन्येऽपि || बहवश्चारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनसन्निविष्टाः कायोत्सर्गस्थिता वा पादोत्क्षेपनिक्षेपरहिता व्योमचारिणः, अपरे वापीसरित्समुद्रादिषु जलमुपेत्याप्कायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, अपरे भुव उपरि चतुरकुलप्रमिते आकाशे जवोत्क्षेपनिक्षेपनिपुणा जङ्घाचारणाः, अन्ये नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमदलपटलमवलम्बमानाः पुष्पचारणाः, अपरे चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य च गिरेष्टङ्कच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादपूर्वकं उत्तरणावतरणनिपुणाः श्रेणिचारणाः, अन्येऽग्निशिखामुपादाय तेजस्कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्नि- ॥१६८॥ शिखाचारणाः, अपरे धूमवति तिरथीनामूर्द्धगामिनी वाऽऽलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः, कुब्जवृक्षान्तरालभाविनभःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनतः पादोत्क्षेपनिक्षेपक्षमा मर्कटकतन्तूनच्छिदन्तो यान्तो मर्कटकतन्तुचारणाः, चन्द्रार्कग्रहनक्षत्राद्य
355
JainEducation
For Private 3 Personal Use Only
R
w.jainelibrary.org