SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- रोद्धारे तत्त्वज्ञानवि कायगुप्तिद्वैधा-चेष्टानिवृत्तिलक्षणा यथागमचेष्टानियमलक्षणा च, तत्र दिव्यमानुषाद्युपसर्गसद्भावेऽपि क्षुत्पिपासादिपरीषहादिसम्भवेऽपि च यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां च सर्वथा यत्कायचेष्टानिरोधनं सा प्रथमा कायगुप्तिः, तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोक्तक्रियाकलापपुरःसरं शयनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीया कायगुप्तिरिति ।। ५९५ ॥ इदानीमभिग्रहानाह व्वे खित्ते काले भावे य अभिग्गहा विणिहिट्ठा । ते पुण अणेगभेया करणस्स इमं सरूवं तु ६७ करणसप्ततौ गुप्तयोऽ. | भिग्रहाश्च गा.५९५-६ ॥१६७॥ द्रव्ये क्षेत्रे काले भावे वाऽभिग्रहा विनिर्दिष्टा:-कथिताः जिनैः, ते पुनः सर्वेऽप्यनेकभेदाः, यथा त्रैलोक्यस्वामिना श्रीमन्महावीरेण | छद्मस्थचर्यायां विहरता कौशाम्ब्यां गृहीताः, तत्र द्रव्याभिप्रहो यद्यहं कुल्माषबाकुलान् सूपैंककोणे स्थितान् लप्स्ये तथा क्षेत्राभिग्रहो निग डनियन्त्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिस्तात् दात्री करिष्यति तथा कालाभिग्रहो यदि दिवसद्वितीयपौरुष्यां अतिक्रान्तायां दास्यति तथा भावाभिग्रहो यदि मुण्डितशिरा रुदती सती सा दास्यति तदाऽहं भिक्षां गृहीष्यामि नान्यथेति, एवंविधाभिग्रहै-16 भगवतः षण्मासाः पञ्चदिवसोनास्तपस्यतः सजाताः इत्यनया दिशा द्रव्याद्यभिग्रहा विज्ञेयाः ॥ करणस्येदं-उक्तप्रकारेण स्वरूपमिति, अस्यापि करणस्य सप्ततिभेदान् श्रीगुरवः कथयन्ति, ते चैवं-आधाकर्मादयो द्विचत्वारिंशदपि दोषाः पिण्डशय्यावस्रपात्रलक्षणवस्तुचतुष्टय| विषयत्वेन चत्वार एव गण्यन्ते समितयः पञ्च भावना द्वादश प्रतिमा अपि द्वादश इन्द्रियनिरोधाः पञ्च प्रतिलेखनाः पञ्चविंशतिः। गुप्तयस्तिस्रः अभिग्रहाश्चत्वार इति सर्वमीलने च सप्ततिः ॥ ननु चरणकरणयोः कः प्रतिविशेषः ?, उच्यते, नित्यानुष्ठानं चरणं यत्तु ॥१६७॥ Jain Educatio n al For Private & Personel Use Only Oljainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy