SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Jain Education I जेना कर्तव्या, अथ बहुशो वसतेः प्रमार्जने प्राणिनामतिसङ्घट्टो भवति तदाऽन्यत्र - वसत्यन्तरे ग्रामान्तरे वा गच्छंतीति ॥ ५९४ ॥ अथ गुप्तीराह मणगुत्तिमाइयाओ गुत्तीओ तिन्नि हुति नायव्वा । अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा जय ।। ५९५ ।। मनोगुत्यादयो– मनोगुप्तिवाग्गुप्तिकाय गुप्तिलक्षणा गुप्तयस्तिस्रो भवन्ति ज्ञातव्याः, तासां स्वरूपमाह - 'अकुशल निवृत्तिरूपा' अकु|शलानां - अशुभानां मनोवचनकायानां निवृत्तिः-निरोधस्तद्रूपाः 'कुशलप्रवृत्तिस्वरूपाश्च कुशलानां - शुभानां मनोवचनकायानां प्रवृत्तिः - व्यापारणं तत्स्वरूपाश्च ता इति, अयमभिप्रायः - इह मनोगुप्तिस्त्रिधा - आर्त्तरौद्रध्यानानुबन्धिकल्पनानिचय वियोग: प्रथमा, शास्त्रानु| सारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया, कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी स्वात्मारामता तृतीयेति, वाग्गुप्तिर्द्विभेदा-मुखनयन भ्रूविकाराङ्गुल्याच्छोटनोद्धूभावकासित हुंकृतलोष्ठक्षेपणादीनामर्थसूचिकानां चेष्टानां परिहारेणाद्य मया न वक्तव्यमित्यभिग्रहकरणमेका वाग्गुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनानि सूचयतो मौनकरणाभिग्रहो निष्फल एवेति, | तथा वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकाच्छादितमुखकमलस्य भाषमाणस्यापि वाग्वृत्तेर्नियन्त्रणं द्वितीया वाग्गुप्तिः, आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः, यदाहुः — “समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भयणिज्जो । कुसलवयमुदीरंतो जं वइगुत्तोवि समिओवि ॥ १ ॥” [ समितो नियमाद् गुप्तो गुप्तः समितत्वे भजनीयः । कुशलवच उदीरयन् यद् वचोगुप्तोऽपि समितोऽपि ॥ १ ॥ ] For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy