________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ १६६ ॥
Jain Education
नाक्रमः, तस्यागमेऽन्यथैवाभिधानात्, तदुक्तं निशीथचूण - "उबहिंमि पचूसे पढमं मुहपोत्ति तओ रयहरणं तओ अंतोनिसिज्जा तभ बाहिरनिसिज्जा चोलपट्टो कप्पउत्तरपट्ट संथारपट्टदंडगो य, एस कमो, अन्ना उक्कमो, पुरिसेसु पुत्रं आयरियस्स, पच्छा परिन्ना तओ गिलाणसेहाइयाण, अन्नदा उक्कमो त्ति अत्र 'परिन्नित्ति अनशनिन उपधिं आचार्योपधिप्रतिलेखनानन्तरं प्रत्युपेक्षते, शेषं सुगमं ॥ ५९१ ॥ अथ द्वितीयतृतीयप्रतिलेखनाखरूपमाह - दिनस्य प्रहरत्रि के अतिक्रान्ते सति उपकरणचतुर्दशकं स्थविरकल्पिकसत्कौधिक स्वरूपं प्रत्युपेक्षते, तत्र प्रथमं मुखवस्त्रिका ततश्चोलपट्टः ततो गोच्छकः ततः पात्रप्रतिलेखनिका ततः पात्रबन्धः ततः पटलानि ततो रजस्त्राणं ततः पात्रस्थापनं ततो मात्रकं ततः पतग्रहः ततो रजोहरणं ततः कल्पत्रिकमिति, उपलक्षणमेतत्, ततोऽन्योऽप्योपप्रहिकोपधिः प्रत्युपेक्षणीय इति । तथा उद्घाटपौरुष्यां सप्तविधात्रनिर्योगप्रत्युपेक्षा भवति, तत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते ततः पटलानि ततः पात्रकेसरिकां ततः पात्रबन्धं ततो रजखाणं ततः पात्रं ततः पात्रस्थापनमिति, प्रत्युपेक्षणविधिस्तु विस्तरभयान्न | लिख्यते तत ओघनिर्युक्तिपश्ञ्चवस्तुकादेः स्वयमेवावसेयः ॥ ५९२ ॥ अत्रैव विशेषमाह-गोसे - प्रत्युषसि मुखवस्त्रिकादिलक्षणं पूर्वोक्तमुपधिं प्रत्युपेक्ष्य तदनु बसते:- यतिनिवासलक्षणाया उपयुक्तेन साधुना प्रमार्जना विधेया, अपराह्ने पुनः प्रथमं वसतेः प्रमार्जना पश्चा| त्प्रत्युपेक्षणा उपधेरिति ॥ ५९३ ॥ यत्रापि वसतेर्जीवसंसक्तिर्न भवति तत्रापि ऋतुबद्धे काले द्वे प्रमार्जने विधेये प्रत्युषसि अपराह्ने च, द्वौ वारौ वसतिरवश्यतया प्रमार्जनीयेति भावः 'वर्षासु' वर्षाकाले पुनस्तृतीयाऽपि वसतेः प्रमार्जना भवति, द्वे पूर्वोक्ते एव तृतीया तु मध्याह्ने भवति, तथा ऋतुबद्धे वर्षासु वा कुन्थुप्रभृतिभिः प्राणिभिः संसक्तौ सत्यां बहुशोऽपि वसतिं प्रमार्जयेत्, चशब्दो विकल्पप्रदर्शनार्थः, | विकल्पश्चायं - यदि संसक्ताऽपि वसतिः पूर्वोक्तप्रमार्जनाप्रमाणेनैवासंसक्ता भवति ततो नातिरिक्ता प्रमार्जना, नो चेत्तदा बहुशोऽपि प्रमा
For Private & Personal Use Only
६७ करणसप्ततौ प्र
तिलेखनाः
गा. ५९०-४
॥ १६६ ॥
lainelibrary.org