________________
तद्वीरासनं 'अहवावि'त्ति अथवेति प्रकारान्तरोद्योतनार्थ अपिः समुच्चये 'तिष्ठेद्' अवतिष्ठेत् 'आयकुब्जो वा' आम्रफलवद्वक्राकारेणावस्थितः, एवमेतास्तिस्रोऽपि प्रथमसप्तरात्रिन्दिवाद्याः प्रतिमा एकविंशत्या दिवसैर्यान्तीति ॥ ५८५ ॥ एकादशीमाह-एवमेव' अनन्तरोक्तनीत्या अहोरात्रिकी प्रतिमा भवति, नवरं-केवलं षष्ठं भक्तं-भोजनं वर्जनीयतया यत्र तत् षष्ठभक्त-उपवासद्वयरूपं तपः, तत्र घुपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति, षष्ठमित्यत्र चानुस्वारोऽनागमिकः, अपानक-पानकाहाररहितं तस्यां विधेममिति शेषः, तथा ग्रामनगरेभ्यो बहिस्तात् 'व्याघारितपाणिके' प्रलम्बितभुजस्य स्थानं-अवस्थानं भवति प्रतिमाप्रतिपन्नस्येति । इयं च अहोरात्रिकी प्रतिमा दिनत्रयेण याति अहोरात्रस्यान्ते षष्ठभक्तकरणात् , यदाह-'अहोराइया तिहिं, पच्छा छ8 करेइत्ति ॥ ५८६ ॥ द्वादशीमाह-एवमेव-अहोरात्रिकीवदेव च एकरात्रिकी प्रतिमा भवति, विशेषमाह-अष्टमभक्तेन-उपवासत्रयरूपेण पानकाहाररहितेन स्थान-अवस्थानं तत्कत्तुर्बहिस्ताद् प्रामादेः, तथाहि-ईषत्याग्भारगतः-ईषत्कुब्जो
नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, तथाऽनिमिषनयनो-निनिमेषनेत्रः, तथैकदृष्टिकः-एकपुद्गलगतदृष्टिर्यथास्थितगात्रो गुप्तसर्वेन्द्रिय साइति । 'साहट्ट'त्ति संहृत्य द्वावपि 'पादौ' क्रमौ जिनमुद्रया व्यवस्थाप्येत्यर्थः व्याघारितपाणिः-वक्ष्यमाणार्थः 'ठायए'त्ति तिष्ठति करोति |
'स्थानं' कायावस्थानविशेषं । अथ 'वाघारियपाणि'त्ति पदं सूत्रकृदेव व्याख्याति-'वाघारित्ति व्याधारितपाणिर्लम्बितभुजोऽवलम्बित
बाहुरुच्यते, सम्यक् पालने चास्या यत् स्यात्तदाह-अन्ते च-सम्यक्पर्यन्तं नयने पुनरस्याः-एकरात्रिकीप्रतिमाया लब्धिः-लाभवि४ा शेषः स्यात्, आह च-"एगराइयं च णं भिक्खुपडिमं सम्म अणुपालेमाणस्स इमे तओ ठाणा हियाए भवन्ति, तंजहा-ओहिनाणे | |वा समुपज्जेजा, मणपज्जवनाणे वा समुपज्जेजा, केवलनाणे वा असमुप्पण्णपुव्वे समुपजेजा" विराधने पुनः "उम्मायं वा लभेज्जा, दीह
For Private
Personal Use Only
KIw.jainelibrary.org