SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ प्रतिमा: नवि० प्रव० सा. थे'त्ययं उक्तो वक्ष्यमाणश्च 'विशेषो' भेदः प्राक्तनप्रतिमाभ्यः, इह च पारणके आचाम्लं कर्तव्यं, दत्तिनियमस्तु नास्तीति ॥ तथा 'उ- ६७करणरोद्धारे तानक' ऊर्ध्वमुखशयितः 'पासल्लीति पार्श्वशयितः 'निसज्जी'ति निषद्यावान् समपुततयोपविष्टः 'वापीति विकल्पार्थः 'स्थान सप्ततौ तत्त्वज्ञा | उक्तमेव कायचेष्टाविशेषरूपं 'स्थित्वा' कृत्वा प्रामादिभ्यो बहिरिति शेषः, 'सहते' क्षमते 'उपसर्गान्' उपद्रवान् 'घोरान्' रौद्रान 'दिव्यादीन्' देवकृतादीन् , आदिशब्दान्मानुषतैरश्चादिग्रहः, 'तत्र' तस्यां प्रतिमायामविकम्पो-मनःशरीराभ्यामचल इति ॥ ५८२-1 D५८३ ॥ नवमीमाह-'द्वितीयाऽपि' द्वितीयसप्तरात्रिन्दिवाप्रतिमाऽपि 'ईदृश्येव' प्रथमसप्तरात्रिन्दिवप्रतिमासदृश्येव तपःपारणक॥१६४॥ साधाद् प्रामादिबहिर्वृत्तिसाधाच्च, अत एवाह-'बहिस्तादेव' बहिरेव प्रामादिसन्निवेशविशेषाणां, नवरं-केवलमयं विशेषः, तुशब्दोऽवधारणे, स च योजित एव, 'उत्कटुको' भूमावन्यस्तपुततया उपविष्टः, तथा लगण्डं-दुःसंस्थितं काष्ठं तद्वच्छेते य एवंशीलोऽसौ लगण्डशायी, मस्तकपार्णिकाभिरेव पृष्ठदेशेनैव वा स्पृष्टभूभागः, तथा दण्डवद्-यष्टिवदायतो-दीर्घो दण्डायतः-पादप्रसारणेन भूमिन्यस्तायतशरीरः स एव दण्डायतकः वाशब्दो विकल्पार्थः, स्थित्वा-अवस्थाय देवाद्युपसर्गान् सहत इति प्रक्रमः ॥ ५८४ ॥ दशमीमाह-तृतीयाऽपि तृतीयसप्तरात्रिन्दिवप्रतिमाऽपि 'ईदृश्येव' उक्तस्वरूपैव तपःपारणकप्रामादिबहिर्वृत्तिसाधर्म्यात्प्रथमरात्रिन्दिवप्रतिमातुल्यैवेत्यर्थः, 'नवरं' केवलं 'स्थानं' शरीरावस्थानं 'तस्य' प्रतिमाप्रतिपत्तुर्गोदोहीति-गोदोहकसमाकारत्वाद्गोदोहिका गोदोहनप्रवृत्तस्येवर ॥१६४॥ पुतयोः पाणिभ्यां संयोगे अग्रपादतलाभ्यामवस्थानक्रिया, सा विधेयेति शेषः, तथा वीराणां-दृढसंहननानामासनं वीरासनं, सिंहासनाद्यधिरूढस्य भूमिन्यस्तपादस्य सिंहासनाद्यपनयने सत्यचलितस्य तथैवावस्थानरूपं तदपि स्थानं, तस्येति प्रक्रमः, यद्वा वामपादो दक्षिणस्योरोरुपरि दक्षिणश्च पादो वामस्योरोरुपरि यत्र क्रियते दक्षिणकरतलस्योपरि वामतलं वामकरतलस्य चोपरि दक्षिणकरतलमुत्तानं नामिलग्नं च यत्र विधीयते | Jain Educatio n al For Private Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy