________________
Jain Education
कथनार्थमेव चायं प्रतिमाप्रतिपन्नो वक्ति न तु भाषान्तरमिति, तथा आगन्तुकागारविवृतगृहवृक्षमूललक्षण एव वसतित्रये वसति न स्वन्यत्र तत्र आगन्तुकागारं यत्र कार्पटिकाद्य आगत्य वसन्ति विवृतगृहं यदधः कुड्याभावादुपरि चाच्छादनाभावादनावृतं वृक्षमूलंकरीरादितरुमूलं साधुवर्जनीयदोषरहितं, उक्तं च - "जायणपुच्छाणुन्नवणपुट्ठवागरणभासगो चेव । आगमण वियडगिहरुक्खमूलगावासयतिगोति ॥ १ ॥” [ याचनापृच्छानुज्ञापनपृष्टव्याकरणभाषक एव । आगमनविवृतगृहवृक्षमूलत्रयावासक इति ॥ १ ॥ ] तथा वहेर्न बिभेति- प्रदीप्तादप्युपाश्रयान्न निर्गच्छति, अथ कश्चिद् बाह्रादौ गृहीत्वाऽऽकर्षति तदा निर्यात्यपि, तथा चरणप्रविष्टं दारुकण्टकशर्करादिकं न स्फेटयति अक्षिगतं रेणुतृणमलादिकं च नापनयति, तथा करचरणमुखादिकमङ्गं प्रासुकजलेनापि न क्षालयति, तदन्यसाधवो हि पुष्टा|लम्बने पटादि प्रक्षालयन्त्यपीति ॥ ५७८-५७९-५८० ।। पश्चात् - मासपूरणानन्तरं गच्छं - साधुसमूहमुपैति विभूत्या, तथाहि-| गच्छस्थानासन्नप्रामे आगच्छत्यसौ, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति, ततो नृपादीनां निवेद्यते यथा परिपालितप्रति मारूप महातपाः साघुरनागतः, ततो नृपादिलोकैः श्रमणसङ्खेन चाभिनन्द्यमानस्तत्र प्रवेक्ष्यते तपोबहुमानार्थं तस्य तदन्येषां श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं | चेति, एवमाद्या उक्ता शेषाः षडतिदिशन्नाह-' एवं ' अनेनैव क्रमेण द्वैमासिकी त्रैमासिकी यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता, 'नवरं' | केवलं प्रथमायाः - मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेष: - यथा दत्तयस्तासु वर्धन्ते, तत्र द्वैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयं त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तय | इति ॥ ५८१ ॥ अथाष्टमीमाह - ' ततश्च' सप्तम्या अनन्तरमष्टमी प्रथमसप्तरात्रिन्दिवा प्रतिमा भवति 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन - एकान्तरोपवासेन आसितव्यमिति शेषः, 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः, 'अ
For Private & Personal Use Only
jainelibrary.org