________________
प्रव० सा
रोद्धारे
तत्वज्ञानवि०
॥ १३ ॥
Jain Education
निर्वृत्तेति सम्प्रदायः, सूत्रकारेण तु नैषेधिकीत्रितयं विवृण्वता - 'घरजिणहरजिणपूयावावारश्चायओ निसीहतगं' इत्युक्तं, तन्त्रा| प्ययमर्थः प्रथमनैषेधिक्यां गृहादिगतसकलसावद्यव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीयनैषेधिक्यां जिनगृहविषयपाषाणादिघटा| पनप्रभृतिसर्वसावद्यव्यापारपूर: प्रत्यषेधि, तृतीयनैषेधिक्यां तु पुष्पफलपानीयप्रदीपप्रमुखपदार्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि | सावद्यव्यापार चैत्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैषेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि सूत्रकारेण न विवृतानि, किंतु विषमतराणि कानिचिदेव अस्माभिश्चाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते १ यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य सृष्टिक्रमेणैव कर्तव्याः, सर्व हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमिति २, तद्नन्तरं प्रतिमादिसम्मुखं भक्त्यतिशयख्यापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः ३, 'तिविहा पूय'त्ति सूत्रकृद्विवृणोति - 'पुष्फक्खयत्थुई हिं तिविहा पूया मुणेयच्चा' इति, पुष्पैर्विचित्रैः सुगन्धिभिः अक्षतैः - शालितण्डुलादिभिः स्तुतिभिश्च -लोकोतरसद्भूततीर्थकृद्गुणवर्णनपराभिः संवेगजनिकाभिस्त्रिविधा पूजा ज्ञातव्येति । अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादितानि, ततो निःसपत्नरत्नसुवर्णमुक्ताभरणादिभिरलङ्करणं विचित्रपवित्रवस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशाहित| ण्डुलादिभिरष्टुमाङ्गलिकालेखनं तथा प्रवरबलिजलमङ्गलदीपदधिघृतप्रभृतिपदार्थढौकनं भगवतश्च भालतले गोरोचनामृगमदादिभिस्तिककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः — “गंधवरधूयसव्वोसहीहिं उद्गाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदानबलिदीवणेहिं च ॥ १ ॥ सिद्धत्थयदहि अक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ॥ २ ॥ पवरेहि साहणेहिं पायं भावोऽवि जायए पवरो । न य अन्नो उवओगो एएसि सया य लट्ठयरो ॥ ३ ॥” इति [ गन्धवरधूपसर्वौषधिभिरुदका
tional
For Private & Personal Use Only
१ चैत्यव
न्दनद्वारे
दश त्रिकाणि
॥ १३ ॥
jainelibrary.org