________________
प्र. सा. ३
Jain Educat
भवो वा, तत्र यदि राजादिस्तदा 'सव्वाए इड्डीए सव्वाए दित्तीए सव्वाए जुईए सव्ववलेणं सव्वपोरिसेणं' [ सर्वया ऋद्ध्या सर्वया दीया सर्वया युक्तया सर्वबलेन सर्वपौरुषेण ] इत्यादिवचनात् शासनप्रभावनानिमित्तं महद्धर्ज्या चैत्यादिषु याति, अथ सा - मान्यविभवस्तदौद्धत्यादिपरिहारेण लोकोपहासं परिहरन् व्रजतीति । तत्र चैत्यप्रवेशेऽयं विधिः - पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण | कटककुण्डलकेयूरहाराद्युचिताचित्तद्रव्याणामपरिहारेण एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्गः, एतच्च पुरुषं प्रति द्रष्टव्यं स्त्री तु सविशेषं प्रावृत्ताङ्गी विनयावनततनुलतेति, जिनप्रतिमादर्शने शिरस्य श्ञ्जलिकरणेन मनस एकाग्रताकरणेन चेति पञ्चविधाभिगमनेन नैषेधिकीपूर्वकं प्रविशति, यदुक्तं भगवत्यां – “ सचित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविसरण्याए एगल्लसाडएणं उत्तरासङ्गेणं चक्खुफासे अंजलिप्पैग्गणं मणसो एगत्तीकरणेणं'ति, [सचित्तानां द्रव्याणां व्युत्सर्जनेन अचित्तानां द्रव्याणामव्युत्सजैनेन एकशाटकेनोत्तरासङ्गकरणेन चक्षुःस्पर्शेऽञ्जलिप्रग्रहेण मनस एकत्वीकरणेन ] कचित् 'अचित्ताणं दव्वाणं विउसरणयाए' इति पाठः, अत्र अचित्तानां द्रव्याणां छत्रादीनां व्यवसरणेन व्युत्सर्जनेन परिहारेणेत्यर्थः, यस्तु राजादिचैत्यं प्रविशति स तत्कालं राज| चिह्नानि मुकुटचामरादीनि परिहरति, तथा च सिद्धान्तः - " अवहटु रायककुहाई पंच वररायककुहरूवाई । खग्गं छत्तोंपाणह मउडं तह चामराओ य ॥ १ ॥” [ त्यक्त्वा राजचिह्नानि पथ्य वरराजचिह्नरूपाणि । खङ्गः छत्रं उपानहौ मुकुटः तथा चामरांश्च ॥ १ ॥ ] इत्यादि, 'अवहटु'त्ति मुक्त्वा राजककुदानि - राजचिह्नानीत्यर्थः । चैत्यगृहे च प्रविशन् नैषेधिकीत्रयं करोति - जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निर्वृत्ता नैषेधिकी, द्वितीया तद्विषय एव वचनव्यापार विधेयानां कार्याणां निषेधेन निर्वृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयानां कार्याणां निषेधेन
ational
For Private & Personal Use Only
www.jainelibrary.org