SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ R-54-4-4-%A5 वोपद्रवसोढा 'यथैव' यद्वदेव 'जिनकल्पी' जिनकल्पिकः तद्वदुपसर्गसह इत्यर्थः, 'एषणा' पिण्डग्रहणप्रकारः, सा च सप्तविधा| "संसहमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उझियधम्मा य सत्तमिया ॥ १॥" [असंसृष्टा संसृष्टा उद्धृता तथाऽल्पलेपिका चैव । अवगृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥ १॥] इति वक्ष्यमाणस्वरूपा 'अभिगृहीता' अभिग्रहवती, अभिग्रहाश्चैवं-तासां सप्तानामेषणानां मध्ये आद्ययोर्द्वयोरग्रहणं पञ्चसु ग्रहणं, पुनरपि विवक्षितदिवसे अन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः-एका भक्ते एका च पानके इति, तथा भक्तं च-अन्नं पुनरलेपकृतं-अलेपकारकं वल्लचनकादि 'तस्य' प्रतिमा प्रतिपत्तुकामस्य परिकर्म कुर्वतः, चशब्दादुपधिश्चास्य स्खकीयैषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत्स्यात् , जाते तूचिते तं व्युत्सृजति, | उक्तं च-"उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥ १॥ जाए उचिए य तयं 3 वोसिरइ अहागडं विहाणेणं । इय आणानिरयस्सिह विन्नेयं तंपि तेण समं ॥२॥" [उपकरणं शुढेषणामानयुतं यदुचितं स्वकल्पस्य । तत् गृहाति यथाकृतं तदभावे यावदुचितं तु ॥१॥ जाते उचिते च तत् व्युत्सृजति यथाकृतं विधानेन । इत्याज्ञानिरतस्येह विज्ञेयं तदपि | तेन सदृशं ॥ २॥] कल्पोचितं चोपधिमुत्पादयति स्वकीयेनैषणाद्वयेन, एतच्च एषणाचतुष्टयेऽन्तिमं, एषणाचतुष्टयं पुनरिद-कार्षासिकाद्युद्दिष्टमेव वस्त्रं ग्रहीष्यामि १ प्रेक्षितमेव २ परिभुक्तप्रायमेवोत्तरीयादितया ३ तदप्युज्झितधर्मकमेवेति ४॥ ५७५-५७६-५७७ ॥ |अथैवं कृतपरिकर्मा यत्करोति तदाह-'गच्छात्' साधुसमूहाद्विनिष्कम्य-तं विमुच्येत्यर्थः, तत्र यद्याचार्यादिः प्रतिमाप्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रव्यादिषु शरत्काले सकलसाध्वामन्त्रणक्षामणपूर्वकं, उक्तं च-"खामेइ तओ संघ म.सा.२८|| सबालवुहूं जहोचियं एवं । अञ्चंत संविग्गो पुव्वविरुद्ध विसेसेणं ॥१॥ जं किंचि पमारणं न सुह मे वट्टियं मए पुचि । तं में खामाम % 4-%ASIES Jain Educatio n al For Private 8 Personal Use Only wow.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy