SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १६२ ॥ Jain Education सर्गेषु हर्षविषादौ न विधत्ते, 'भावितात्मा' सद्भावनाभावितान्तःकरणः प्रतिमानुष्ठानेन वा भावितात्मा, सद्भावना च तुलनापञ्चकेन स्यात्, तद्यथा - " तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा बुत्ता, पडिमं पडिवज्जओ ॥ १ ॥” [ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च । तुलना पञ्चधोक्ता प्रतिमां प्रतिपद्यमानस्य ॥ १ ॥ ] एतद्व्याख्या च प्रागेवोक्ता, कथं भावितात्मेत्याह - 'सम्यक्' यथाऽऽगमं, तथा 'गुरुणा' आचार्येणानुज्ञातः - अनुमतः, अथ गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वाऽनुमत इति ॥ ५७५ ।। तथा 'गच्छ एव' साधुसमुदायमध्य एव तिष्ठन् 'निर्मातः' आहारादिविषये प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः, आह च – “पडिमाकपियतुल्लो गच्छे श्चिय कुणइ दुविहपरिकम्मं । आहारोवहिमाइसु तहेव पडिवज्जई कप्पं ॥ १ ॥ [ प्रतिमाकल्पिकतुल्यो गच्छ एव करोति द्विविधपरिकर्म । आहारोपध्यादिषु तथैव प्रतिपद्यते कल्पं ॥ १ ॥ ] आहारादिप्रतिकर्म चाप्रेतनगाथायां कथयिष्यते, परिकर्मपरिमाणं चैवं - मासिक्यादिषु सप्तसु या यत्परिमाणा प्रतिमा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यते न च परिकर्म करोति, तथा आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यां चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे परिकर्म अन्यत्र वर्षे प्रतिपत्तिः, तदेवं नवभिर्वर्षैराद्याः सप्त समाप्यन्त इति । अथ तस्य कियान् श्रुताभिगमो भवतीत्याह - 'जा पुच्चे' त्यादि, यावत्पूर्वाणि दश 'असम्पूर्णानि' किश्चिदूनानि, सम्पूदशपूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात्प्रतिमादिकल्पं न प्रतिपद्यते, 'भवेत्' स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायं जघन्यस्य वक्ष्यमाणत्वात्, अथ तमेवाह - नवमस्य पूर्वस्य - प्रत्याख्याननामकस्य तृतीयं वस्तु-आचाराख्यं तद्भागविशेषं यावदिति वर्तते स्यात् अस्य जघन्यः - अल्पीयान् श्रुताधिगमः - श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतत् श्रुतविरहितो हि निरतिशयज्ञानत्वात्कालादि न जानातीति ॥ ५७६ ।। तथा व्युत्सृष्टः परिकर्माभावेन त्यक्तो ममत्वत्यागेन देहः -- कायो येन सः तथा, ' 'उपसर्गस हो' दिव्यमानुषतैर nal For Private & Personal Use Only ६८ करण सप्ततौ प्रतिमाः १२ गा. ५७४-८८ ॥ १६२ ॥ jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy