SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६८ करणसप्ततौ भावनाः गा. ५७२-७३ ॥१६॥ समभूमितलादूर्द्ध, सार्धरज्जौ व्यवस्थितौ । कल्पावनल्पसम्पत्ती, सौधर्मेशाननामको ॥ ४३ ॥ सार्धरज्जुद्वये स्याता, समानौ दक्षिणोसातरौ । सनत्कुमारमाहेन्द्रौ, देवलोकौ मनोहरौ ।। ४४ ॥ ऊर्द्धलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः । तदूर्द्ध लान्तकः कल्पो, महा शुक्रस्ततः परम् ॥ ४५ ॥ देवलोकः सहस्रारोऽथाष्टमो रज्जुपञ्चके । एकेन्द्रौ चन्द्रवद् वृत्तावानतप्राणतो ततः॥४६॥ रज्जुषटके ततः स्यातामेकेन्द्रावारणाच्युतौ । चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः ॥ ४७ ॥ प्रैवेयकास्त्रयोऽधस्स्यास्त्रयो मध्यमकास्तथा । त्रयश्वोपरितनाः स्युरिति अवेयका नव ॥४८॥ अनुत्तरविमानानि, तदूर्द्ध पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते॥४९॥ प्रतीच्या तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ ५० ॥ स्थितिप्रभावले श्यामिविशुद्ध्यवधिदीप्तिभिः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ॥ ५१ । पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । हीनहीनतरा देहगतिगर्वपरिग्रहै। ॥५२॥ घनोदधिप्रतिष्ठाना, विमानाः कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ॥ ५३ ॥ ते व्योमविहितस्थानाः, | सर्वेऽप्युपरिवर्तिनः । इत्यू लोकविमानप्रतिष्ठानविधिः स्मृतः ॥ ५४ । सर्वार्थसिद्धाद् द्वादशयोजनेषु हिमोज्ज्वला । योजनपञ्चचत्वारिंशल्लक्षायामविस्तरा ॥ ५५ ॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने ॥५६॥ तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः ॥ ५७ ॥ अनन्तसुखविज्ञान वीर्यसद्दर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥ ५८ ॥ एनां भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारकनिबन्धने न विषयप्रामे मनो धावति । किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोडुरं, धर्मध्यानविधाविह स्थिरतरं तज्जायते संततम् ॥ ५९॥ १०॥ अथ बोधिदुर्लभत्वभावना-पृथ्वीनीरहुताशवायुतरुषु क्लिष्टैर्निजैः कर्ममिर्धाम्यन् भीमभवेऽत्र पुद्गलपरावर्ताननन्तानहो । जीवः कामम For Private & Personal Use Only Arthrottuk ।॥१६ ॥ Jain Education Kirainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy