________________
रिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥ २३ ॥ वर्षाणि भारतादीनि, सप्त वर्षधरास्तथा । पर्वता हिमवन्मुख्याः, षट् शाश्वतजिनालयाः ॥ २४ ॥ योजनलक्षप्रमिताज्जम्बूद्वीपात्परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्ताराः ॥ २५ ॥ बोद्धव्या धातकीखण्डकालोदाद्या असङ्ख्यकाः । स्वयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् ॥ २६॥ युग्मम् । प्रत्येकरससम्पूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः ॥ २७ ॥ सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवाधिः स्यात् , क्षीरोदजलधिः पुनः ॥ २८॥ सम्यक्क्कथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥२९॥ लवणाब्धिस्तु लवणास्वादपानीयपूरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥ ३०॥ मेघोदकरसाः किन्तु, कालोदजलधेर्जलम् । कालं गुरुपरिणामं, पुष्करोदजलं पुन: ॥ ३१॥ हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलधेर्जलमीदृशम् ॥ ३२ ॥ त्रिभागावर्तसुचतुर्जातकेक्षुरसोपमम् । शेषासङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः ॥ ३३ ॥ समभूमितलादूई, योजने शतसप्तके । गते नवतिसंयुक्ते, ज्योतिषां स्याद्धस्तलः ॥ ३४ ॥ तस्योपरि च दशसु, योजनेषु दिवाकरः । तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः ॥ ३५ ॥ तस्योपरि च विंशत्यां, योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ३६ ।। जम्बूद्वीपे भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ। चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः ॥ ३७॥ धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशश्चन्द्राः सूर्याश्च कीर्तिताः ॥ ३८ ॥ पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूना, सूर्याणां च शतं भवेत् ॥ ३९ ॥ मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः । चन्द्रैरन्तरिताः सूर्याः, सूर्यैरन्तरिताश्च ते ॥ ४०॥ मानुषक्षेत्रचन्द्रार्कप्रमाणार्धप्रमाणकाः । तत्क्षेत्रपरिधेर्वृद्ध्या, वृद्धिमन्तश्च सङ्ख्यया ॥४१॥ स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकाः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं विराः॥४२॥
NAACHAR
JainEducation Hella
For Private
Personel Use Only
XUhinelibrary.org
४ा