________________
॥९॥ ७ । अथ संवरभावना-आश्रवाणां निरोधो यः, संवरः स प्रकीर्तितः। सर्वतो देशतश्चेति, द्विधा स तु विभज्यते ॥१॥ अयोगिकेवलिष्वेव, सर्वतः संवरो मतः । देशतः पुनरेकद्विप्रभृत्याश्रवरोधिषु ॥ २ ॥ प्रत्येकमपि स द्वेधा, द्रव्यभावविभेदतः । यत्कर्मपुद्गलादानमात्मन्याश्रवतो भवेत् ॥ ३ ॥ एतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः। भवहेतुक्रियायास्तु, त्यागोऽसौ भावसंवरः॥४॥युग्मम् । मिथ्यात्वकषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्या, उपायाः प्रतिपन्थिनः ॥५॥ यथा-मिथ्यात्वमातरौद्राख्यकुध्याने |च सुधीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् ॥ ६॥ क्षान्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः ॥ ७॥ शब्दादिविषयानिष्टानिष्टांश्चापि विषोपमान् । रागद्वेषप्रहाणेन, निराकुर्वीत कोविदः ॥८॥ य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति वर्गापवर्गश्रीरवश्यं तस्य वश्यताम् ॥ ९॥७ । अथ निर्जराभावना-संसारहेतुभूताया, यः क्षयः कर्मसन्ततेः । निर्जरा सा पुनद्वैधा, सकामाकामभेदतः ॥ १॥ श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाकः खत उपायाध, कर्मणां स्याद् यथाऽऽम्रवत् ॥२॥ कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ ३ ॥ एकेन्द्रियादिजन्तूनां, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा ॥ ४ ॥ कष्टं पेदयमानानां, यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ॥५॥ युग्मम् । तपःप्रभृतिभिर्वृद्धिं, व्रजन्ती निर्जरा यतः । ममत्वं कर्म संसार, हन्यात्ता भावयेत्ततः ॥६॥ ९ । अथ लोकस्वभावभावना-वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाक्रान्तैः ॥ १॥ ऊर्द्धतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादृष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥ २॥ नवयोजनशत्यूर्द्ध मधोभागे|ऽपि सा तथा । एतत्प्रमाणकस्तिर्यग्लोकश्चित्रपदार्थभृत् ॥३॥ ऊर्द्धलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोको
Jain Education
a
l
For Private Personel Use Only
Mainelibrary.org