________________
प्रव० सारोद्धारे
तत्त्वज्ञा
नवि०
॥ १५५ ॥
Jain Educatio
कम्मुद्देसियचरिमेति इयमीसचरिमपाहुडिया । अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ ५७० ॥
सूचामात्रत्वात्सूत्रस्य 'कम्म'त्ति आधाकर्म सप्रभेदं औदेशिकस्य - विभागौदेशिकस्य चरमत्रिकं - कर्मभेदसत्कमन्त्यमेव भेदत्रयं, पूतिर्भतपानरूपा 'मीस'त्ति मिश्रजातं पाखण्डिगृहिमिश्रं साधुगृहिमिश्रं चरमा - अन्त्या बादरेत्यर्थः प्राभृतिका 'अज्झोयर'त्ति अध्यवपूरकस्य स्वगृहिपाखण्डिमिश्रस्वगृहिसाधुमिश्ररूपमन्त्यं भेदद्वयं एते उद्गमदोषा अविशोधिकोटिः, अस्याश्चाविशोधिकोट्या अवयवेन शुष्कसिक्थादिना तथा तत्रादिना लेपेन वल्लचणकादिना च अलेपेन संसृष्टं यत् शुद्धं भक्तं तस्मिन्नुज्झितेऽपि यदकृतकल्पत्रये पात्रे शुद्धमपि भक्तं पश्चात्परिगृह्यते तत्पूतिरवगन्तव्यं, 'विसोहिकोडी भवे सेस'ति शेषाः - ओघौद्देशिकं नवविधमपि च विभागौदेशिकमुपकरणपूतिर्मिश्रस्याद्यो भेदः स्थापना सूक्ष्मप्राभृतिका प्रादुष्करणं क्रीतं प्रामित्यकं परिवर्तितमभ्याहृतमुद्भिन्नं मालापहृतमाच्छेद्य मनिसृष्टमध्यवपूरक| स्याद्यो भेदश्वेत्येवंरूपा विशोधिकोटिः, विशुद्ध्यति शेषं शुद्धं भक्तं यस्मिन्नुद्धृते यद्वा विशुद्ध्यति पात्रकमकृतकल्पत्रयमपि यस्मिन्नुज्झिते सा विशोधिः सा चासौ कोटिश्च भेदश्च विशोधिकोटिः, उक्तं च – “उद्देसियंमि नवगं उवगरणे जं च पूइयं होइ । जावंतियमीसगयं | अज्झोयरए य पढमपयं ॥ १ ॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय । अच्छिज्जे अणिसट्टे पाओयर कीय पामि ॥ २ ॥ सुहुमा पाहुडियाऽविय ठवियगपिंडो य जो भवे दुविहो । सब्वोऽवि एस रासी विसोहिकोडी मुणेयव्वो ॥ ३ ॥” [ औद्देशिके नवकमाद्यमुपकरणे यच पूतिकं भवति । यावदर्थिकं मिश्रगतं अध्यवपूरके च प्रथमपदम् ॥ १॥ परिवर्त्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च । आच्छेयमनिसृष्टं प्रादुष्करणमपमित्यं क्रीतं ॥ २ ॥ सूक्ष्मा प्राभृतिका स्थापनापिण्डश्च यो भवेत् द्विविधः । सर्वोऽप्येष राशिर्विशोधिकोटी ज्ञातव्यः ॥ ३ ॥ ]
ational
For Private & Personal Use Only
६८ करणसप्ततौ
कोटीनवकं
विशुद्धय
विशुद्धि
कोट्यौ
गा. ५६९
५७०
॥ १५५ ॥
www.jainelibrary.org