________________
सचित्ताचित्तद्रव्ययोराधारभूतयोराधेयभूतयोश्च संयोगतश्चतुर्भङ्गी भवति, तद्यथा-सचित्ते सचित्तं अचित्ते सचित्तं सचित्ते अचित्तं अ-I चित्ते अचित्तं, अत्र चाद्येषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसद्भावान्न कल्पते, चरमे पुनः परिशाटिसद्भावात् , परिशाटौ च महान् दोषः, तथाहि-उष्णस्य द्रव्यस्य छर्दने भिक्षा दमानो दह्येत भूम्याश्रितानां वा पृथिव्यादीनां दाहः स्यात् शीतद्रव्यस्य च भूमौ पतने भूम्याश्रिताः पृथिव्यादयो विराध्यन्ते इति १० ॥५६८।। एते दश एषणादोषा भवन्ति, उक्तास्तावत्सङ्केपतो द्विचत्वारिंशदपि दोषाः, विस्तर-18 |तस्तु पिण्डनियुक्तरवगन्तव्याः॥ अथ पिण्डविशुद्धेः सर्वसङ्घहमाह
पिंडेसणा य सव्वा संखित्तोयरइ नवसु कोडीसु । न हणइ न किणइ न पयइ कारावणअणुम
ईहि नव ॥५६९॥ पिण्डैषणा-पिण्डविशुद्धिः सर्वाऽपि सद्धिप्ता-सङ्केपेण भण्यमाना अवतरति-अन्तर्भवति नवसु कोटीपु-विभागेषु, ता एवाह-न स्वयं हन्ति न च क्रीणाति न च पचति इति त्रयं, एवं कारणानुमतिभ्यामपि, तथा नान्येन घातयति न कापयति न च पाचयति तथा नापरेण हन्यमानं न क्रीयमाणं न च पच्यमानमनुमोदते, मिलिताश्चैता नव कोटयः, एतैर्नवभिः पदैः पिण्डविशुद्धिः सर्वाऽपि सङ्गृह्यत इति भावः ॥ ५६९ ॥ इह च पूर्व षोडशविध उद्गम उक्तः, स च सामान्यतो द्विधा भवति, तद्यथा-विशोधिकोटिरूपोऽविशोधिकोटिरूपश्च, तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते सति शेष कल्पते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः, तत्र ये दोषा अविशोधिकोटिरूपा ये च विशोधिकोटिरूपास्तानाह
HainEducation
For Private Personel Use Only
Divjainelibrary.org