SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Educatio कादिच्छेदनेन वनस्पतिकायं मयादेर्मत्कुणादिपातनेन च त्रसकार्य विनाशयन्त्यां दात्र्यां न गृह्यते २८ तथा सप्रत्यपाया - सम्भाव्यमानापाया, इह अपायास्त्रिविधाः, तद्यथा - तिर्यगूर्द्धमधश्च तत्र तिर्यग्गवादिभ्यः ऊर्द्धमुत्तरङ्गकाष्ठादेः अधः सर्पकण्टकादेः, इत्थं च त्रिविधा - | नामप्यपायानामन्यतममपायं बुद्ध्या सम्भावयन् न ततो मिक्षां गृह्णीयादिति, अत्र च षट् कायान् सङ्घट्टयन्त्यां तथा तानेव विनाशयन्त्यां सप्रत्यपायायां चापवादो नास्ति, ततः सर्वथा न कल्पते एव शेषेषु पुनरपवादो दर्शित एव, २९ एवमन्येऽपि दायकदोषाः स्वयं शास्त्रान्तरतश्च परिभाव्य परिहरणीयाः ६ || 'उम्मीसे'त्ति उन्मिश्रं - सचित्तसम्मिश्रं, इह कश्चिद् गृहस्थः केवलं वस्त्विदं व्रतिने वितीर्यमाणमल्पं स्यादिति लज्जया पृथग्वस्तुद्वयदाने वेला लगतीत्यौत्सुक्येन मीलितं वस्तुद्वयं मृष्टं भवतीति भक्त्या सचित्तभक्षणभङ्गो भवतु एतेषामिति प्रत्यनीकतया अनाभोगेन वा साधूनां कल्पनीयतया उचितं पूरणादिकं अकल्पनीयतया मुनीनामनुचितेन करमर्दकदाडिमकुलिकादिना | मिश्रयित्वा यद्ददाति तदुन्मिश्रं, अत्र च कल्पनीयाकल्पनीये द्वे अपि वस्तुनी च मिश्रयित्वा यद्ददाति तदुन्मिश्रं संहरणं तु यद्भाजनस्थम| देयं वस्तु तदन्यत्र कापि स्थगनिकादौ संहृत्य ददातीत्ययं मिश्रसंहृतयोर्भेदः ७|| 'अपरिणय'त्ति अपरिणतं - अप्रासुकीभूतं, तत्सामान्यतस्तावद् द्विधा - द्रव्यतो भावतच, पुनरेकैकं द्विधा - दातृविषयं ग्रहीतृविषयं च तत्र द्रव्यरूपमपरिणतं यत्पृथिवीकायादिकं स्वरूपेण सजीवं, यत्पुनर्जीवेन विप्रमुक्तं तत्परिणतमिति, तच्च यदा दातुः सत्तायां वर्तते तदा दातृविषयं यदा तु प्रहीतुः सत्तायां तदा प्रहीतृविषयं तथा द्वयोर्बहूनां वा साधारणे देयवस्तुनि यद्येकस्य कस्यचिद्ददामीत्येवं भावः परिणमति न शेषाणां एतद्भावतो दातृविषयमपरिणतं साधा| रणानिसृष्टं दायकपरोक्षत्वे दातृभावापरिणतं तु दायकसमक्षत्वे इत्यनयोर्भेदः, तथा द्वयोः साध्वोः सङ्घाटकरूपेण मिक्षाकृते गृहिगृहं गतयोरेकस्य साधोरेतल्लभ्यमानमशनादिकं शुद्धमिति मनसि परिणतं न द्वितीयस्येति ग्रहीतृविषयं भावापरिणतं एतच्च साधूनां न कल्पते For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy