SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Jain Education हस्तादौ लगिताः सम्भवन्ति ततो मिक्षादानाय हस्तादिप्रस्फोटने भिक्षां वा ददत्या मिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयववरण्टितौ हस्तौ जलेन प्रक्षालयेत् ततोऽकायविराधना, एषाऽपि पेषणसमाप्तौ प्राशुकं वा पिंषन्ती यदि ददाति तदा कल्पते १६ तथा भर्जमाना - चुल्लयां कडिल्हकादौ चनकादीन् स्फोटयन्ती, तस्यां हि भिक्षां ददत्यां वेलालगनेन कडिल्हकक्षिप्त गोधूमचनकादीनां दाहे सति प्रद्वेषादयो दोषाः स्युः, अत्रापि यत्सचित्तं गोधूमादिकं कडिल्हके क्षिप्तं तद्भष्टोत्तारितं अन्यश्च नाद्यापि करे गृह्णाति एतस्मिन्नन्तरे भिक्षाकृते साधुः समागतः ततो यद्युत्थाय ददाति तदा कल्पते १७ तथा कृन्तत्यां-यत्रेण रूतपोणिकां सूत्ररूपां कुर्वत्यां १८ तथा लोढयन्त्यां -लोढिन्यां कर्पासं कणकेन रूततया विधत्यां १९ तथा विक्ष्णुवत्यां - रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वत्यां २० तथा पिञ्जयन्त्यां - पिश्ञ्जनेन रूतं विरलं कुर्वत्यां न गृह्यते, देयलिप्तहस्तधावनरूपस्य पुर: कर्मपश्चात्कर्मादेर्दोषस्य सम्भवात् कार्पासिकादिसचित्तसङ्घट्टसम्भवाचेति २१, इह च कर्तने यदि सूत्रस्य श्वेततातिशयोत्पादनाय शङ्खचूर्णेन हस्तौ न खरण्टयति खरण्टने वा यदि जलेन न प्रक्षालयति तदा कल्पते, लोढनेऽपि यदि हस्ते धृतः कार्पासो न स्यात् कार्पासिकान् वा यदि उत्तिष्ठन्ती न घट्टयति तदा गृह्यते, विक्ष्णुवत्यां पिजयन्त्यां च यदि पश्चात्कर्म न भवति तदा कल्पते, तथा दलयन्ती-घरट्टेन गोधूमादि चूर्णयन्ती, तस्यां हि ददत्यां घरट्टक्षिप्तबीजसङ्घट्टः हस्तधावने जलविराधना च, दलयन्त्यपि सचित्तमुद्रादिना दल्यमानेन सह घरट्टं मुक्तवती अत्रान्तरे च साधुरायातस्ततो यद्युतिष्ठति अचेतनं वा भृष्टं मुद्रादिकं दलयति तर्हि तद्धस्तात्कल्पते २२ तथा विरोलयन्ती - दुध्यादि मनन्ती, यदि तद्दध्यादि संसक्तं मध्नाति तर्हि तेन संसक्तदध्यादिना लिप्तकरत्वाद्विक्षां ददती तेषां रसजीवानां वधं विदध्यात्, अत्रापि चेदसंसक्तं दध्यादि मध्नाति तदा कल्पते २३ तथा भुञ्जाना दात्री मिक्षादानार्थमाचमनं करोति आचमने च क्रियमाणे उदकं विराध्यते अथ न करोत्याचमनं तर्हि लोके जुगुप्सा, For Private & Personal Use Only lainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy