________________
प्रव० सा.
रोद्धारे तत्त्वज्ञानवि०
॥१५२॥
केवलं पादाभावात्तस्य मिक्षादानाय चलतः प्रायो नियमतः पतनं भवेत् , तथा च सति भूम्याश्रितपिपीलिकाप्रतिप्राणिप्रणाशः, छिन्न-II
६८करणकरोऽपि यदि सागारिकाभावे ददाति तदा यतनया गृह्यते, छिन्नचरणोऽपि च यद्युपविष्टो ददाति असागारिकं च स्थानं भवेत्तदा गृह्यते १०-११॥ तथा गलत्कुष्ठाद् गृह्यमाणे तदीयोच्छ्वासत्वक्संस्पर्शार्धपकरुधिरखेदमललालादिमिः साधोः कुष्ठसङ्क्रमो भवेत् , सोऽपि चेन्मण्डलप्रसूतिरूपकुष्ठाकीर्णकायः सन् सागारिकाभावे ददाति तर्हि ततः कल्पते न शेषकुष्ठिनः सागारिके वा पश्यति, तत्र मण्डलानि-वृत्ताकारददु
| दोषाः विशेषरूपाणि प्रसूतिः-नखविदारणेऽपि वेदनाया असंवेदनमिति १२ तथा करविषयकाष्ठमयबन्धनरूपेण हस्ताण्डुना पादविषयलोहबन्धनरूपेण निगडेन च बद्धे दातरि मिक्षा प्रयच्छति दुःखं तस्य स्यात् तथा मूत्राद्युत्सर्गादौ च शौचकरणासम्भवात्ततो मिक्षामहणे लोके जुगुप्सा, यथा अमी अशुचयो यदेतस्मादप्यशुचीभूताद्भिक्षामाददत इति, तथा पादबद्धश्चेदितश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततस्तस्मादपि कल्पते, इतरस्तु य इतश्वेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षा दातुमपि न शक्नोतीति तत्र प्रतिषेध एव न भजना १३ तथा पादुकयो:-काष्ठमयोपानहोरारूढस्य मिक्षादानाय प्रचलतः कदाचिद् दुःस्थितत्वेन पतनं स्यात् , पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते १४ तथा कण्डूयन्त्या-उदूखले तण्डुलादिकं छटयन्त्या न गृह्यते, यत इयमुदूखलक्षिप्तशाल्यादिबीजसचट्टादि करोति, भिक्षादानात्पूर्व मिक्षादानोत्तरकालं वा जलेन हस्तधावनात्पुरःकर्मदोषं पश्चात्कर्मदोष वा विध्यादित्यायो दोषाः, अत्रापि कण्डयन्त्या कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशले किमपि काचयां बीज लग्नमस्ति अत्रान्तरे च समायातः साधुः ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादौ मुशलं स्थापयित्वा मिक्षां ददाति तदा कल्पते १५||
॥१५२॥ तथा पिंषन्ती-शिलायां तिलामलकादि प्रमृगन्ती यदा मिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादि सत्काः काश्चिन्नखिकाः सचित्ता अपि
Jain Educati
o
nal
For Private Personal Use Only
L
iainelibrary.org