________________
6
IsotoX CSXSAGAUR
पीडितादपि गृह्णन्ति, अथासञ्चरिष्णुवरो भवेत्तदा यतनया कदाचिद् गृह्यतेऽपीति ५ तथा अन्धाद्भिक्षाग्रहणे उड्डाहः, स चायं-अहोऽमी। है औदरिका यदन्धादपि मिक्षा च दातुमशक्नुवतो मिक्षां गृह्णन्तीति, तथा अन्धोऽपश्यन् पादाभ्यां भूम्याश्रितषडूजीवनिकायघातं विद
धाति, तथाऽन्धो लेष्ट्वादौ स्खलितः सन् भूमौ निपतेत् , तथा च सति मिक्षादानायोत्पादितहस्तगृहीतस्थाल्यादेर्भङ्गः स्यात्, साधुपात्रकाद् बहिःक्षेपणे च परिशाटिर्भवेदिति, सोऽपि पुत्रादिना धृतहस्तो यदि दद्यात्तदा यतनया गृह्यते ६ तथा बालो-जन्मतो वर्षाष्टकाभ्यन्तरवर्ती तस्मिन् देयमानमजानति मात्राद्यसमक्षमतिप्रभूतां भिक्षा ददति अहो लुण्टाका एते न साधुसद्वृत्ता इत्युड्डाहो भवेत् मात्रादीनां व्रति|नामुपरि द्वेषश्च सजायते, यदि च मात्रादिभिः कार्यवशादन्यत्र गच्छद्भिर्खालकस्य कथितमिदमिदं च वतिनामत्रागतानां त्वया देवमिति, यदि च जनन्याद्यनुपविष्टेऽपि स्तोकमेव किञ्चिद्ददाति बालकस्तदा तेनापि दीयमानं गृह्यते, एवं मात्रादिमिः क्रियमाणस्य कलहादेरभावादिति ७ तथा मत्तः-पीतमदिरादिः, स च मिक्षां ददत् कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति भाजनं वा मिनत्ति यद्वा कदाचि-I दिक्षा ददानः पीतमासवं वमति वर्मश्च साधु साधुपात्रं वा खरण्टयति ततो. लोके जुगुप्सा-धिगमी साधवोऽशुचयो ये मत्तादपीत्थं मिक्षां गृह्णन्तीति, तथा कोऽपि मत्तो मदविह्वलतया रे मुण्ड! किमत्रायातस्त्वमिति ब्रुवन् घातमपि विदधाति ८ तथा उन्मत्तो-दृप्तो |ग्रहगृहीतो वा, तस्मिन्नप्येत एवालिङ्गनादयो दोषा वमनवर्जा भावनीया इति, तथा मत्तोऽपि यदि भद्रकोऽलक्ष्यमदश्च भवति यदि च |सागारिकः कोऽपि तत्र तथाविधो न विद्यते तर्हि तद्धस्तात् कल्पते नान्यथा, उन्मत्तोऽपि चेत् शुचिर्भद्रकश्च भवति तदा कल्पत इति ९ तथा छिन्नकरो मूत्राद्युत्सर्गादौ जलशौचाद्यभावादशुचिरेव, तेन च दीयमाने जनो निन्दा करोति, तथा हस्ताभावे येन भाजनेन कृत्वा [मिक्षा ददाति यद्वा देयं वस्तु तस्य पतनमपि भवति, तथा च सति षड्जीवनिकायव्याघातः, तथा छिन्नचरणेऽप्येत एव दोषा द्रष्टव्याः,
-ROSSAXXXMAR64
Jain Educationalitional
For Private
Personel Use Only
Diw.jainelibrary.org