SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ६८ करण सप्ततो १० एषणा| दोषाः गा.५६८ ॥१५१॥ त नपुंसकः ३ कम्पमानकायो ४ ज्वरितो ५ ऽन्धो ६ बालो ७ मत्त ८ उन्मत्त ९ श्छिन्नकर १० श्छिन्नचरणो ११ गलत्कुष्ठो १२ बद्धः १३ पादुकारूढः १४ तथा कण्डयन्ती १५ पिंषन्ती १६ भर्जमाना १७ कृन्तन्ती १८ लोढयन्ती १९ विष्णुवती २० पिजयन्ती २१ दलयन्ती २२ विरोलयन्ती २३ भुजाना २४ आपन्नसत्त्वा २५ बालवत्सा २६ षट् कायान् सबट्टयन्ती २७ तानेव विनाशयन्ती |२८ सप्रत्यपाया २९ चेति, तत एवमादिस्वरूपे दातरि ददति न कल्पते, तत्र स्थविरः सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वोपरिवर्ती, स च प्रायो गलल्लालो भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा, तथा कम्पमानहस्तश्च भवति, ततो हस्तकम्पनवशाइयं वस्तु भूमौ निपतति, तथा च षट्जीवनिकायविराधना, तथा स्वयं वा स्थविरो ददत् निपतेत् , तथा सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च १ अपि च-प्रायः स्थविरो गृहस्याप्रभुर्भवति, ततस्तेन दीयमाने कोऽधिकारोऽस्य वृद्धस्य दाने इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य प्रद्वेषः स्यात् , तथा वृद्धोऽपि यदि प्रभुर्भवति कम्पमानश्च यद्यन्येन विधृतो वर्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते २ तथा नपुंसकादभीक्ष्णं मिक्षाग्रहणे अतिपरिचयात्तस्य नपुंसकस्य साघोर्वा वेदोदयो भवेत् , ततो नपुंसकस्य साध्वालिङ्गनाद्यासेवनेन द्वयस्यापि कर्मबन्धः, तथा अहो एते नपुंसकादपि निकृष्टात् गृह्णन्तीति जननिन्दा भवेत् , अपवादतस्तु वर्धितकचिप्पितमत्रोपहतऋषिशप्तदेवशप्तादिषु केषुचिदप्रतिसेविषु नपुंसकेषु ददत्सु गृह्यतेऽपि निक्षेति ३ | तथा कम्पमानकायोऽपि मिक्षादानसमये देयमानयन भूमौ परिशाटयेत् तथा साधुभाजनाहिर्भिक्षां क्षिपेत् देयमात्रकं वा पातनेन स्फोटयेदिति, सोऽपि च यदि दृढमिक्षाभाजनग्राही भवेत् पुत्रादिभिर्वा दृढहस्तो भिक्षा दाप्यते तदा ततोऽपि गृह्यते ४ एवं ज्वरितेऽपि दोषा भावनीयाः, किञ्च-ज्वरिताद्भिक्षाग्रहणे ज्वरसङ्क्रमणमपि साधोर्भवेत्, तथा जने उड्डाहो यथा अहो अमी आहारलम्पटा यदित्यं ज्वर AAKAASARAL ॥१५१॥ For Private Personal Use Only Jain Education (Omainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy