________________
म. सा. २६
Jain Education
स्थगितं पिठरादि परम्परपिहितं, तथा तत्रैवाङ्गारधूपनादौ अव्यवहितमनन्तरपिहितं वायौ द्रष्टव्यं 'यत्राग्निस्तत्र वायुरिति वचनात् समीरणभृतेन तु बस्तिना पिहितं परम्परपिहितं, तथा फलादिना अतिरोहितेन पिहितं वनस्पत्यनन्तरपिहितं, फलभृच्छब्बकादिना पिहितं परम्परपिहितं, तथा मण्डकमोदकादिकमुपरिसश्वरत्पिपीलिकापङ्किकं त्रसानन्तरपिहितं, कीटिकाद्याकीर्णेन तु शरावादिना पिहितं त्रसपरम्परपिहि - तमिति, तत्र च पृथिवीकायादिभिरनन्तरपिहितं न कल्पत एव यतीनां सङ्घट्टादिदोष संभवात् परम्परपिहितं तु यतनया ग्राह्यमपि, तथा | अचित्तेनाप्यचित्ते देये वस्तुनि पिहिते चतुर्भङ्गी, यथा - गुरुकं गुरुकेण पिहितं १ गुरुकं लघुकेन २ लघुकं गुरुकेण ३ लघुकं लघुकेन ४, तत्र च प्रथमतृतीययोर्भङ्गयोरग्राह्यं, गुरुद्रव्यस्योत्पाटने हि कथमपि तस्य पाते पादादिभङ्गसम्भवात्, द्वितीयचतुर्थयोस्तु प्राह्ममुक्तदोषाभावात्, देयवस्त्वाधारस्य पिठरादेर्गुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् ४ || 'साहरिय'त्ति संहृतम् - अन्यत्र प्रक्षिप्तं, तत्र येन करोटिकादिना कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तद्देयमन्यत्र स्थानान्तरे क्षित्वा तेन ददाति एतत्संहृतमुच्यते, तथादेयं कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषु कदाचिन्मिश्रेषु तदा मिश्रस्य सचित्त एवान्तर्भावात्स चित्ताचित्तपदाभ्यां चतुर्भङ्गी, यथा सचित्ते सचित्तं संहृतं १ सचित्ते अचित्तं २ अचित्ते सचित्तं ३ अचित्ते अचित्तमिति ४, तत्राद्येषु त्रिषु भङ्गेषु सचित्तसङ्घट्टादिदोषसम्भवान्न कल्पते चतुर्थे भने तु तथाविधदोषासम्भवे सति कल्पतेऽपीति, अत्राप्यनन्तरपरम्परप्ररूपणा पूर्ववत्कर्तव्या, यथा सचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं यदा तु सचित्तपृथिवीकायस्योपरिस्थिते पिठरादौ संहरति तदा परम्परसचित्त पृथिवीकायसंहृतं, एवमप्कायादिष्वपि भावनीयं, अनन्तरसंहृते न प्राह्यं, | परम्परसंहृते तु सचित्तपृथिवीकायाद्यसङ्घट्टने प्रामिति ५ । 'दायग'त्ति दायकदोषदुष्टं, दायकश्चानेकप्रकार:, तथाहि - स्थविरो १ प्रभु २
tional
For Private & Personal Use Only
w.jainelibrary.org