SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञा नवि० ॥। १५० ।। | केवलं तेजस्काये परम्पर निक्षिप्तस्य ग्रहणमाश्रित्य विशेषः प्रतिपाद्यते यथेक्षुरसः पाकस्थाने अमेरुपरिस्थिते कटाहादौ यदि कटाहः सर्वतः पार्श्वेषु मृत्तिकयाऽवलिप्तो भवति दीयमाने चेक्षुरसे यदि परिशाटिर्नोपजायते सोऽपि च कटाहो यदि विशालमुखो भवति सोऽपि चेक्षुरसोऽचिरक्षिप्त इतिकृत्वा यदि नात्युष्णो भवति तदा स दीयमान इक्षुरसः कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुर्बहिः पतति तर्हि स लेप एव वर्तते, न तु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति, ततो मृत्तिकयाऽवलिप्त इत्युक्तं, तथा विशालमुखादाकृष्य| माण उदश्वनः पिठरस्य कर्णे न लगति ततो न पिठरस्य भङ्ग इति न तेजस्कायविराधनेत्यतो विशालमुख इत्युक्तं, तथा अत्युष्णे इक्षुरसादौ दीयमाने यस्मिन् भाजने तदत्युष्णं गृह्णाति तेन तप्तं सद् भाजनं हस्तेन साधुर्गृहन् दह्यते इत्यात्मविराधना, येनापि स्थानेन [दुर्व्यादिना ] सा दात्री ददाति तेनाप्यत्युष्णेन सा दाते, अन्यच्च - अत्युष्णमिक्षुरसादि कष्टेन दात्री दातुं शक्नोति, कष्टेन च दाने कथमपि साधुसम्बन्धिभाजनाद्वहि रुज्झने हानिर्दीयमानस्येक्षुरसादेस्तस्य च भाजनस्य साधुना वसतावानयनायोत्पाटितस्य पतग्रहादेः दात्र्या वा दानायोत्पाटितस्योदध्वनस्य दण्डरहितस्यात्युष्णतया झगिति भूमौ मोचने भङ्गः स्यात्, तथा च षड्जीव निकायविराधनेति संयमविराधना चेत्यतोऽनत्युष्णमित्युक्तं ३ ॥ 'पिहिय'त्ति पिहितं - सचित्तेन स्थगितं, तदपि षोढा पृथिवीकायादिपिहितभेदात् एकैकमपि द्विधाअनन्तरं परम्परं च तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथ्वीकायानन्तरपिहितं सचित्त पृथिवीकायगर्भपिठरादिपिहितं सचिन्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाऽवष्टब्धं मण्डकादिकं सच्चित्तापकायानन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सच्चि - ताप्कायपरम्परपिहितं, तथा स्थाल्यादौ संखेदिमादीनां मध्ये अङ्गारं स्थापयित्वा हिङ्ग्वा दिवासो यदा दीयते तदा तेनाङ्गारेण केषाञ्चित्सं| वेदिमादीनां संस्पर्शोऽस्तीति तेजस्कायानन्तरपिहितं, एवं चनकादिकमपि मुर्मुरादिङ्क्षिप्तमनन्तरपिहितमवगन्तव्यं, अङ्गारभृतेन शरावादिना For Private & Personal Use Only Jain Educationtional द्वारे एष णादोषाः गा. ५६८ ॥ १५० ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy