________________
Jain Educatio
कर्म, यत्पुनर्भक्तादेर्दानात् पश्चात्क्रियते तत्पश्चात्कर्म, सस्निग्धं - ईषलक्ष्यमा गजलखरण्टितं हस्तादि, उदकार्द्र - स्फुटोपलभ्यमान जलसंसर्ग, तथा चूतफलादीनां सद्यःकृतैः लक्ष्णखण्डैः खरण्टितं यद्धस्तादि तद्वनस्पतिकायम्रक्षितं, शेषैस्तु तेजः समीरत्रसकायैर्ब्रक्षितं न भवति, तेजस्कायादिसंसर्गेऽपि लोके प्रतिशब्दप्रवृत्त्यदर्शनात्, अचित्तनक्षितं पुनर्द्विविधं गर्हितमितरच, गर्हितं वसादिना लिप्तं इतरत् घृतादिना, इह च सचित्तम्रक्षितं तावत् साधूनां सर्वथा न कल्पते, अचित्तम्रक्षितं तु लोकानिन्दितेन घृतादिना श्रक्षितं कल्पते, निन्दितेन | पुनर्वसादिना प्रक्षितं न कल्पते एवेति २ ॥ ' निक्खित्त' त्ति निक्षिप्तं - सचित्तस्योपरि स्थापितं तच्च पृथिव्यप्तेजोवायुवनस्पतित्रसनिक्षिप्तभेदेन षोढा, पुनरेकैकं द्विधा - अनन्तरं परम्परं च, अनन्तरं - अव्यवधानेन परम्परं च - व्यवधानेन, तत्र सचित्ते - मृदादौ यत् पक्कान्नमण्डकादिकमानन्तर्येण व्यवस्थापितं तदनन्तरनिक्षिप्तं, सचित्तमृदादेरेवोपरिस्थिते पिठरकादौ यन्निक्षिप्तं पक्कान्नादि तत् परम्परनिक्षिप्तं, तथा यन्नवनीतस्त्यानी भूतघृतादिकं सञ्चित्ते उदके निक्षिप्तं तदनन्तरनिक्षिप्तं, तदेव नवनीतादि पक्कान्नादि वा जलमध्ये स्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तं तथा वह्नौ पर्पटादि यत्प्रक्षिप्यते तदनन्तरनिक्षिप्तं यत्पुनरग्नेरुपरि स्थापिते पिठरादौ क्षिप्तं तत्परम्परनिक्षिप्तं, तथा वातोत्पाटिता: शालिपर्पटकादयोऽनन्तरनिक्षिप्तं यद् येनोत्पाट्यते तत्तत्र निक्षिप्तमुच्यते इति विवक्षया, परम्परनिक्षिप्तं तु पवनापूरितहत्याधुपरिस्थितमण्डकादि, तथा वनस्पत्यनन्तरनिक्षिप्तं सच्चित्तत्रीहिकाफलादिषु पूपमण्डकादि न्यस्तं परम्परनिक्षिप्तं तु हरितादीनामेवोपरिस्थितेषु पिठरादिषु निक्षिप्ता अपूपादयः, तथा त्रसेऽनन्तरनिक्षिप्तं बलीवर्दादिपृष्ठेऽपूपमोदकादयो निक्षिप्ताः, परम्परनिक्षिप्तं तु बलीव - र्दा दिपृष्ठ निवेशित कुतुपादिभाजनेषु निक्षिप्ता घृतमोदकादय इति, अत्र च पृथिव्यादिषु सर्वेष्वप्यनन्तरनिक्षिप्तं देयं वस्तु यतीनामकल्पनीयमेव, सचित्तपृथिवीकायाद्युपरिस्थितत्वेन सङ्घट्टादिदोषसम्भवात् परम्परनिक्षिप्तं पुनः सचित्तसङ्घट्टादिपरिहारेण यतनया प्राह्ममपीति,
ational
For Private & Personal Use Only
www.jainelibrary.org