________________
प्रव० सा
रोद्धारे तत्त्वज्ञा
नवि०
॥ १४९ ॥
Jain Education
द्वितीयः २ भोजने शङ्कितो न ग्रहणे इति तृतीयः ३ न ग्रहणे नापि भोजने इति चतुर्थः ४, तत्राद्येषु त्रिषु भङ्गेषु षोडशोद्गमदोषनवैषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं भवति तं दोषमाप्नोति, किमुक्तं भवति ? - यदा आधाकर्मत्वेन शङ्कितं गृह्णाति भुंक्ते वा तदा आधाकर्मदोषेण सम्बध्यते यदि पुनरौद्देशिकत्वेन तत औद्देशिकेनेत्यादि, चतुर्थे तु भने वर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः, एतेषां चैवं सम्भवः - यथा कोऽपि साधुः स्वभावतो लज्जावान् भवति, तत्र कापि गृहे स भिक्षार्थं प्रविष्टः सन् प्रचुरां मिक्षां लभमानः स्वचेतसि शङ्कते -किमत्र प्रचुरा मिक्षा दीयते ?, न च लज्जया प्रष्टुं शक्नोति, तत एवं शङ्कया गृहीत्वा शङ्कित एव तद् भुङ्क्ते इति प्रथमभङ्गवर्ती, तथा भिक्षार्थं गतः कोऽपि साधुः कापि गेहे तथैव शङ्कितमनाः प्रचुरां भिक्षामादाय स्ववसतिमागमत्, ततो भोजनसमये तं दोलायमानमानसं समालोक्य कश्चिदपरसाधुर्विज्ञातभिक्षादायिगृहव्यतिकरस्तदभिप्रायं ज्ञात्वा भणति - भो साधो ! यत्र त्वया विपुला मिक्षा लब्धा तद्गृहेऽद्य महत्प्रकरणं वर्तते लाभनकं वा महत्कुतोऽप्यागतमित्येवं तद्वचः श्रुत्वा शुद्धमेतदिति निश्चित्य विगतशङ्कस्तद् भुङ्क्ते इति द्वितीयभङ्गवर्ती, तथा कश्चित्साधुरीश्वरगेहान्निः शङ्कितः प्रचुरां भिक्षां गृहीत्वा वसतावागतोऽन्यान् साधून गुरोः पुरतः स्वभिक्षातुल्यां भिक्षामालोचयतः श्रुत्वा सञ्जातशङ्कश्चिन्तयति - यथा यादृश्येव मया मिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सङ्घाटकैः तन्नूनमेतदाघाकर्मादिदोषदुष्टं भविष्यतीति भुञ्जानस्तृतीयभङ्गवर्ती १ || 'मक्खिय'त्ति प्रक्षितं - पृथिव्यादिनाऽवगुण्ठितं तद् द्विधा - सचित्तम्रक्षितमचित्तम्रक्षितं च तत्र सचित्तत्रक्षितं त्रिविधं - पृथिवीकायम्रक्षितं अकायम्रक्षितं वनस्पतिकायम्रक्षितं च, तत्र शुष्केणार्द्रेण वा सचित्तपृथिवीकायेन देयं मात्रकं हस्तो वा यदि प्रक्षितो भवति तदा सचित्तपृथ्वीकाय म्रक्षितं, अप्कायम्रक्षिते चत्वारो भेदाः - पुरः कर्म पश्चात्कर्म सस्निग्धं उदकार्द्र च तत्र भक्तादेर्दानात्पूर्व यत् साध्वर्थं कर्म हस्तमात्रा देर्जलप्रक्षालनादि क्रियते तत्पुर:
For Private & Personal Use Only
द्वारे एषणादोषाः
गा. ५६८
॥ १४९ ॥
jainelibrary.org