________________
SHORRENEWS
नोच्चाटनमारणादि कुर्यात् , तथा विद्यादिना परद्रोहकरणरूपेण जीवनशीलाः शठाश्चैते इति लोके जुगुप्सा, तथा कार्मणकारिण इमे इति ! राजकुले ग्रहणाकर्षणवेषपरित्याजनकदर्थनमारणादीनि कुर्यादित्यादयः १२-१३ ।। 'चुण्णजोगे' इति द्वारद्वयं, तत्र चू!-नयनाअनादि-ट। रन्तर्धानादिफलः योगः-पादप्रलेपादिः सौभाग्यदौर्भाग्यकरः एतद्व्यापारणेन य उपाय॑ते पिण्डः स चूर्णपिण्डो योगपिण्डश्च, दोषाश्चात्रापि पूर्ववत्, ननु चूर्णयोगयोर्द्वयोः क्षोदरूपत्वे सति परस्परं को विशेषः? येन योगद्वारं पृथगुच्यते, सत्यमेतत् , परं कायस्य बहिरुपयोगी चूर्णः बहिरन्तश्वोपयोगी योग इति, यतोऽसावभ्यवहार्यानाहार्यभेदाद् द्विविधो भवेत् , तत्र जलपानादिना अभ्यवहार्यः-आहार्यः पादप्रलेपादिश्वेतर इति अनयोर्विशेषः १४-१५॥ 'उप्पायणाय दोसा सोलसमे मूलकम्मे य' इति एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडशो दोषो मूलकर्म-अतिगहनभववनस्य मूलं-कारणं प्ररोहहेतुः कर्म-सावधक्रिया ततो मूलं च तत्कर्म च मूलकर्म, तत्र गर्भस्तम्भनगर्भाधानगर्भपाताक्षतयोनित्वकरणक्षतयोनित्वकरणादिना य उपाय॑ते पिण्डः स मूलकर्मपिण्डः, अयं च साधूनां न कल्पते, प्रद्वेषप्रवचनमा-1 लिन्यजीवघाताद्यनेकदोषसम्भवात् , तथाहि-गर्भस्तम्भने गर्भशातने च साधुना कृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि विनाशः, गर्भाधानाक्षतयोनित्वकरणयोश्च यावज्जीवं मैथुनप्रवृत्तिः गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, क्षतयोनित्वकरणे पुनर्भोगान्तरायादीनि १६ ॥ ५६७ ॥ उक्ताः षोडशाप्युत्पादनादोषाः, अथ दश एषणादोषानाह
संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥ ५६८॥ शङ्कितं-सम्भाविताधाकर्मादिदोष, तत्र च चतुर्भङ्गी-ग्रहणे शङ्कितो भोजने चेति प्रथमो भङ्गः १ ग्रहणे शङ्कितो न भोजने इति |
Jain Education
For Private & Personal Use Only
Jainelibrary.org