SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भुतं यतो दातरि गुणिनि च दृष्टे कः प्रमोदभाङ् न भवति ? इत्येष पश्चात्संस्तवः, उभयरूपेऽपि चास्मिन् संस्तवे मायामृषावादासंयतानुमोदनादयो दोषा भवेयुरिति, तथा मातापित्रादिरूपतया यः संस्तवः - परिचयः स पूर्वसम्बन्धिसंस्तवः, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्सम्बन्धिसंस्तवः श्वश्वादीनां पश्चात्कालभावित्वात्, तत्र कश्चित्साधुर्भिक्षार्थं कस्मिंश्चिद् गृहे | प्रविष्टः सन्नाहारलम्पटतया आत्मवयः परवयश्च ज्ञात्वा तदनुरूपं सम्बन्धं घटयति, तथाहि--यदि च सा वयोवृद्धा स्वयं च मध्यमवयास्तदा तां निजमात्रादिसमानां महेलामालोक्य मातृस्थानेन मनागश्रुविमोचनं विधत्ते, ततः सा पृच्छति-साधो ! किं त्वमधृतो दृश्यसे ?, साधुरपि ॥ १४८ ॥ प्राह-मम त्वत्सदृशी माताऽभूत्, यदि पुनः साऽपि मध्यमवयास्तदा ममेदृशी स्वसाऽभूदिति वदति, अथ सा बालवयास्ततो ममेदृशी प्रव० सा रोद्धारे तत्त्वज्ञानवि० Jain Educatio | दुहिता आसीदित्यादि भाषते इति, एवं पश्चात्संस्तवेऽपि भावना कार्या, अत्रापि च बहवो दोषाः, तथाहि - ते गृहिणो यदि भद्रकास्तदा साधौ प्रतिबन्धो भवेत्, प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दद्युः, अथ प्रान्तास्तर्हि अयमस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनां विधत्ते, तत एवं विचिन्त्य स्वगृहान्निष्काशनादि कुर्युः, अधृत्या अश्रुमोचनादि कुर्वन् मायावी एषोऽस्माकमावर्जननिमित्तं चाटूनि करोतीति निन्दा चेति, तथा ममेदृशी माता आसीदित्युक्ते मृतस्य पुत्रस्य स्थानेऽयं मे पुत्र इति बुद्ध्या तस्मै स्वनुषादिदानं कुर्यात् श्वश्रूरीदृशी ममासीदित्युक्ते च विधवां कुरण्डां वा निजसुतां दद्यादित्यादयश्च दोषाः, ततः संस्तवपिण्डो यतीनां न कल्पत इति ११ ॥ ' विज्जामंते 'ति द्वारद्वयं प्रतिपाद्यते, तत्र विद्या - प्रज्ञत्यादि स्त्रीरूपदेवताधिष्ठिता जपहोमादिसाध्या वा अक्षरविशेषपद्धतिः पुरुषरूपदेवताधिष्ठिता पाठमात्रसिद्धा वाऽक्षरविशेषपद्धतिर्मत्रः तद्व्यापारणेन य उपार्श्वते पिण्डः स विद्यापिण्डो मन्त्रपिण्डश्च, दोषाश्चात्र - यो विद्ययाऽभिमन्त्रितः सन् दानं दाप्यते स स्वभावस्था जातः कदाचित् प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भ ational For Private & Personal Use Only: करणस ततौ १६ उत्पा दनादोषाः गा. ५६७५६८ ॥ १४८ ॥ w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy