________________
Jain Education
नमानसः कस्यापि गृहिणः पार्श्वे गत्वा तं गृहिणं तैस्तैर्वचन जा तैर्दानविषये ऽभिमाने चटापयति, स च गृही तथाऽभिमानपरः शेषे कल| त्रादिके निजलोके दातुमनिच्छत्यपि यदशनादिकं ददाति स मानपिण्डः ८ ॥ 'माय'त्ति माया - परवञ्चनात्मिका बुद्धिः तया कश्चित्साधुर्मन्त्रयोगाद्युपायकुशलः सन् स्वकीयरूपपरावर्तादिकं कृत्वा यन्मोदकादिकं पिण्डमुपार्जयति स मायापिण्डः ९ ॥ 'लोभे य'त्ति लोभो - गृद्धिस्तेन यो गृह्यते पिण्डः स लोभपिण्डः, इयमत्र भावना - कश्चित्साधुरद्याममुकं सिंहकेसरमोदकादिकं ग्रहीष्यामीतिबुद्ध्या अन्यद्वल्लचणकादिकं लभ्यमानमपि न गृह्णाति किन्तु तदेवेप्सितं स लोभपिण्डः, अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनश्रीप्रभृतिकं भद्रकरसमितिकृत्वा यद् गृह्णाति स लोभपिण्डः, यदिवा पायसादौ लब्धे यदि खण्डशर्करादिकं कुतोऽपि लभ्यते तदा भव्यतरं भवतीतिकृताध्यवसायः पर्यटन् यल्लभते खण्डादिकं स लोभपिण्ड इति इदं च क्रोधादिपिण्डचतुष्टयं साधूनां न कल्पते, प्रद्वे|षकर्मबन्धप्रवचनलाघवादिदोषसम्भवात् १० ॥ ' पुर्वि पच्छा संथव'त्ति संस्तवो द्विधा - वचनसंस्तवः सम्बन्धिसंस्तवश्च, तत्र वचनंलाघा तद्रूपो यः संस्तवः स वचनसंस्तवः, सम्बन्धिनो - मात्रादयः श्वश्वादयश्च तद्रूपतया यः संस्तवः स सम्बन्धिसंस्तवः, एकैकोऽपि चद्विधा - पूर्वसंस्तवः पश्चात्संस्तवञ्च तत्र देयेऽलब्धे सति पूर्वमेव दातारं यद्गुणैर्वर्णयति स पूर्वसंस्तवः, यत्तु देये लब्धे सति दातारं गुणैर्वर्णयति स पश्चात्संस्तवः, इयमत्र भावना - कश्चित्साधुर्भिक्षामटन् कस्मिंश्चिद् गृहे कञ्चिदीश्वरं दातारं निरीक्ष्य दानात्पूर्वमेव सत्यैरसत्यैर्वा औदार्यादिभिर्गुणैः स्तौति, यथा अहो दानपतिरस्माभिर्य: पूर्व वार्तामिः श्रुतः सोऽयं प्रत्यक्षेणैव वीक्षितः, तथा इतस्ततो भ्राम्यद्भिरस्मा| भिर्नेदृशा औदार्यादयो गुणा अपरस्य कस्यापि दृष्टाः श्रुता वा, तथा धन्यस्त्वं यस्येदृशा गुणाः सर्वत्रास्खलिताः सर्वदिग्वलयव्यापिनः प्रसरन्तीत्येवं पूर्वसंस्तवः, तथा दाने गृहिणा दत्ते सति यत् स्तौति यथा त्वदीयदर्शनेनाद्यास्माकं लोचने मनश्च शीतलमजायत, न चेदम
For Private & Personal Use Only
jainelibrary.org