________________
Jain Education
डाहो यथा साध्वर्थमेषा मिक्षामाहरन्ती परासुरभूत् तस्मान्नामी साधवः कल्याणकारिणः, एवंविधमपि दात्र्या अनर्थमेते न जानन्तीत्येवं | लोकमध्ये मूर्खताप्रवादश्चेत्येवमादयः, तस्मान्मालापहृतं साधुभिर्न ग्राह्यं यत्पुनर्दर्दरसोपानादीने सुखावताराण्यारुह्य ददाति तन्मालापहृतं न भवति, केवलं साधुरप्येषणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटांते, अपवादेन भूस्थोऽप्यानीतं गृह्णातीति १३ । 'अच्छि ज्ञे'ति आच्छिद्यते - अनिच्छतोऽपि भृतकपुत्रादेः सकाशात् साधुदानाय परिगृह्यते यत्तदाच्छेद्यं तत् त्रिविधं स्वामे विषयं प्रभुविषयं स्तेनविषयं च, तत्र ग्रामादिनायक: स्वामी स्वगृहमात्रनायकः प्रभुः स्तेनः-- चौरः, ततो ग्रामादिस्वामी यतीन् दृष्ट्वा भद्रकतया कलहेनाकलहेन वा बलादपि साधुनिमित्तं कौटुम्बिकेभ्यः सकाशादशनाद्याच्छिद्य यतिभ्यो यद्ददाति तत् स्वामिविषयमाच्छेद्यं, तथा यगोरक्षककर्मकरपुत्रपुत्रिका वधू भार्यादिसत्कमेतेभ्योऽनेिच्छद्भ्योऽपि सकाशाद् गृहीत्वा गृहनायकः साधुभ्यो दुग्धादिकं दद्यात्तत्प्रभुविषयमाच्छेद्यं, तथा स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, ततस्ते मार्गे आगच्छन्तः कदाचित्तथाविधसार्थेन सार्धमागतान् भोजनार्थं कृतावस्थिते: सार्थस्य मध्ये मिक्षामटतः परिपूर्णान्नमप्राप्नुवतश्च संयतान् दृष्ट्वा तन्निमित्तमात्मनो वाऽर्थाय सार्थिकेभ्यो बलादाच्छिद्य पाथेयादि यदि साधुभ्यो दद्युस्तत् स्तेन विषयमाच्छेद्यं, एतत् त्रिविधमपि आच्छेद्यं साधूनां न कल्पते, अप्रीतिकलहात्मघातान्तरायप्रद्वेषाद्यनेक दोषसम्भवात्, केवलं स्तेनाच्छेद्येऽयं विशेष:- यथा येषां सम्बन्धि भक्तादि बलादाच्छिद्य चैौराः साधुभ्यः प्रयच्छन्ति, त एव सार्थिका यदि | स्तेनैर्बलाद्दाप्यमाना एवं ब्रुवते - अस्माकमवश्यं चौरैर्गृहीतव्यं, ततो यदि चौरा अपि यदि युष्मभ्यं दापयन्ति तदा महानस्माकं सन्तोष इति, तत एवं सार्थिकैरनुज्ञाताः साधवो दीयमानं गृह्णन्ति, पञ्चाञ्चौरेष्वपगतेषु भूयोऽपि तद् द्रव्यं गृहीतं तेभ्यः समर्पयन्ति, यथा तदानीं चौरप्रतिभयादस्माभिर्गृहीतं सम्प्रति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृह्णीयेति, एवं चोक्ते सति यदि तेऽपि समनुजानते यथा युष्मभ्य
For Private & Personal Use Only
Jainelibrary.org