SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्वज्ञा नवि० ॥ १४१ ॥ Jain Education नीय यद्ददाति तत्प्रकटं स्वग्रामविषयमभिहृतं एवं परग्रामविषयमपि प्रकटमनाचीर्णमवसेयं, आचीर्ण पुनर्द्विविधं - क्षेत्रविषयं गृहविषयं च, क्षेत्रविषयमपि त्रिविधं - उत्कृष्टं मध्यमं जघन्यं च तत्र कस्मिंश्चिन्महति गृहे भूरिभुञ्जानकजनपतिरुपविष्टा वर्तते, तस्याश्चैकस्मिन् पर्यन्ते साधुसङ्घाटको द्वितीये तु देयमशनादिकं तिष्ठति, न च साधुसङ्घाटकरछुप्तिभयादिना देयस्याशनादेः समीपं गन्तुं शक्नोति, ततो हस्त शतप्रमितक्षेत्रादानीतं यद् गृह्णाति तदुत्कृष्टं क्षेत्राभिहृतमाचीर्ण, हस्तशतात्परतस्त्वानीतं प्रतिषिद्धमेव, मध्यमं क्षेत्राभ्याहृतं पुनः करपरिवर्त्तादुपरि यावद्धस्तशतं किञ्चिन्यूनं भवति तावद्विज्ञेयं, करपरिवर्ते तु जघन्यं क्षेत्राचीर्णमभ्याहृतं, करपरिवर्ती नाम हस्तस्य किश्चिच्चलनं, यथा काचिद्दात्री ऊर्द्धा उपविष्टा वा स्वयोगेनैव निजकरगृहीतमोदकमण्डकादिका प्रसारित बाहुस्तिष्ठति, सा च तथास्थिता साधुसङ्घाटकं दृष्ट्वा करस्थितैर्मोदकादिभिस्तं निमन्त्रयते, स च करस्याधः पात्रकं धारयति सा च भुजमचालयन्ती किश्चिन्मुष्टिं शिथि - लयति, ततो मण्डकादिकं पात्रके पततीति इदं क्षेत्रविषयमाचीर्ण, गृहविषयमभ्याहृतमाचीर्णं पुनरित्थं भवति - पङ्क्तिस्थितानि त्रीणि गृहाणि सन्ति, तत्र च यदा साधुसङ्घाटको भिक्षां गृह्णाति तदा एकः साधुरेकत्र धर्मलाभिते गृह्यमाणमिक्षे गृहे उपयोगं ददानो भिक्षां गृह्णाति पश्चाद्भागवर्ती द्वितीयसङ्घाटकस्तु धर्मलाभितगृहादितरयोर्गृहयोरानीयमानभिक्षयोरुपयोगं दायकहस्तादिविषयं ददातीति गृहत्रयादानीतमाचरितमशनादिकं, चतुर्थादेस्तु गृहान्नाचरितमिति ११ । 'उब्भिन्ने त्ति उद्भेदनमुद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतुपादे - 8 |र्मुखस्य गोमयादिस्थगितस्योद्घाटनं, तद् द्विधा - पिहितोद्भिनं कपाटोद्भिन्नं च तत्र यच्छगणकाग्नितापितजतुसचित्तपृथिवीकायप्रभृतिभिः लेषद्रव्यैः पिहितद्वारं प्रतिदिनम्परिभोगं खण्डगुडादिभृतघट कुतुप कुशूलादिकं साधुदाननिमित्तमुद्घाट्य खण्डादिकं साधुभ्यो दीयते तद्दीयमानं खण्डादि पिहितोद्भिन्नं पिहितमुद्भिन्नं, यत्र तत्पिहितोद्भिन्नमिति व्युत्पत्तेः, यत्पुनः खण्डघृतगुडादियुक्तापवरकादेर्निश्चलनिभृतदत्त ॥ १४१ ॥ | ६७ करणे ४२ दोषाः For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy