________________
Jain Educatio
काचित् श्राविका भक्तियुक्ता साधूनां प्रतिलाभनायाभ्याहृताशङ्कानिवृत्त्यर्थं प्रहेण कमिषेणोपाश्रये मोदकाद्यानीय साधुसंमुखमेवं वदति - यथा भगवन्! मया भ्रातृगेहादौ सङ्खड्यां वा गतया इदं लब्धं यद्वा मया स्वजनानां गृहे प्रहेणकमिदं स्वगृहान्नीतं, तैश्व रोवादिना केनापि कारणेन न गृहीतं, सम्प्रति वन्दनार्थमत्र प्रविष्टा, ततो यदि युष्माकमेदमुपकरोति तर्हि प्रतिगृह्यतामिति, ततः सा यद्ददाति तत् प्रच्छन्नं स्वग्रामविषयमभ्याहृतं तथा क्वचिद् मामे बहवः श्रावकाः सन्ति, ते च सर्वेऽप्येक कुटुम्बवर्तिनः, अन्यदा तेषां गृहे विवाहः समजनि, | निवृत्ते च विवाहे प्रचुरमोदका युद्धरितं, ततस्तैरचिन्ति यथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजायते, अथ केचित् साधवो दूरेऽवतिष्ठन्ते केचित्पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरमोदकादिकमालोक्य शुद्धमिति कथ्यमानमप्याधा कर्मशङ्कया न गृहीष्यन्ति, ततो यत्र प्रामे साधवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति - यदि साधूनाहूय दास्यामस्ततस्तेऽशुद्धमाशय न गृहीष्यन्ति, तस्माद् द्विजादि - | भ्योऽपि किमपि किमपि दद्मः तच्च तथा दीयमानमपि यदि साधवो न प्रेक्षिष्यन्ते ततस्तदवस्थैव तेषामशुद्धाशङ्का भविष्यति ततो यत्र यत्रोचारादिकार्यार्थं निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दद्म इति, एवं च चिन्तयित्वा विवक्षिते कस्मिंश्चित्प्रदेशे द्विजादिभ्यः स्तोकं | स्तोकं दातुमारब्धं तत उच्चारादिकार्यार्थं निर्गताः केचन साधवो दृष्टाः, ततस्ते निमन्त्रिता - यथा भो साधवोऽस्माकमुद्धरितं मोदकादिकं प्रचुरमवतिष्ठते, ततो यदि युष्माकं किमप्युपकरोति तर्हि तत्प्रतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन्, एतत्प्रच्छन्नं परमा| मविषयमभिहृतं, परम्परया ज्ञाते च परिष्ठापनीयं, तथा कश्चित्साधुर्भिक्षामटन् कापि गृहे प्रविष्टः, तत्र च गौरवार्ह स्वजनभोजनादिकं प्रकृतं वर्तते, ततो न तदानीं साधवे भिक्षां दातुं प्रपारिता इत्यादिभिः कारणैः काचित् श्राविका स्वगृहात्साधोरुपाश्रये मोदकादिकमा
For Private & Personal Use Only
ww.jainelibrary.org