________________
प्रव० सा. यः पटमपदर्य लोकमावर्जयति, इत्थंभूते च परभावक्रीते त्रयो दोषाः-एक तावत्क्रीतं द्वितीयमन्यस्माद् गृहादानीतमित्यभ्याइतं आनी-III
रोद्धारे यानीय चैकत्र साधुनिमित्तं स्थाप्यत इति स्थापितमिति ४-८ । 'पामिच्चे'त्ति अपमित्यं-भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधनिमि- ४२ दोषाः तत्त्वज्ञा- तमुच्छिन्नं गृह्यते तदपमित्यं प्रामित्यकं वा, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तं, तद् द्विविधं-लौकिकं लोकोत्तर नवि० लौकिकं यद् गृहस्थेन परस्मादुच्छिन्नं गृहीत्वा घृतादिकं वस्तु व्रतिभ्यो वितीर्यते, दोषाश्च दासत्वनिगडनियन्त्रणादयः, लोकोत्तरं च।
वस्त्रादिविषयं साधूनामेव परस्परमवसेयं, तत्तु द्विधा-कोऽपि कस्यापि सत्कमेवं वस्त्रादि गृह्णाति-यथा कियहिनानि परिभण्य पनापिका ॥१४॥
समर्पयिष्यामि, कोऽपि पुनरेवं-एतावद्दिनानामुपरि तवैतत्सदृशमपरं वस्त्रादि दास्यामि, तत्र प्रथमे प्रकारे शरीरादिमलेन मलिनीकृते | लायदिवा पाटिते चौरादिना वा हृते मार्गे पतिते वा तस्मिन् वस्त्रादिके कलहादयो दोषाः, द्वितीये च प्रकारे अन्यद्वस्त्रादिकं याचमानस्य
तस्य दुष्कररुचेविशिष्टतरेऽपि दत्ते महता कष्टेन रुचिरापादयितुं शक्यते, ततः तमाश्रित्य कलहादयो दोषाः सम्भवन्तीति ९ । 'परियट्टिए'त्ति परिवर्तितं यत्साधुनिमित्तं कृतपरावर्त, तद् द्विविधं-लौकिकं लोकोत्तरं च, एकैकमपि द्विधा-तद्व्यविषयमन्यद्रव्यविषयं |च, तत्र तद्रव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं गृह्णातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूरं समर्पयित्वा
साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि, इदं च लौकिकमेव, लोकोत्तरमपि साधोः साधुना सह वस्त्रादिपरावर्तनस्वरूपं इति द्विधा भाव४ानीयं, दोषाश्चात्रापि प्राग्वदेव १० । 'अभिहडेत्ति अभि-साध्वभिमुखं हृतं-गृहस्थेन स्थानान्तरादानीतमभिहृतं, तद् द्विधा-अनाचीर्ण|माचीर्ण च, तत्रानाचीर्ण द्विविध-प्रच्छन्नं प्रकटं च, सर्वथा साधुना अभ्याहृतत्वेन यदपरिज्ञातं तत्प्रच्छन्नं, यत्पुनरभ्याहृतत्वेन ज्ञातं ॥१४ ॥ तत्प्रकटं, एकैकमपि द्विविधं-स्खग्रामविषयं परप्रामविषयं च, यस्मिन् प्रामे साधुर्निवसति स किल स्वग्रामः, शेषस्तु परमामः, तत्र
Join Educati
o
nal
For Private & Personal Use Only
www.jainelibrary.org